________________
किट्टिवेदन विधिः ] चारित्रमोहोपशमनाधिकारः
[ २०७ काऽद्धायाः कालतः सदृशस्त्रीन विभागान् कृत्वा द्वित्रिभागप्रमाणा प्रथमस्थितिः क्रियत इति नाऽ भ्युपगन्तव्यम्, किन्तु लोभवेदकाऽद्धायां मुख्यतः त्रीणि कार्याणि भवन्ति तदपेक्षया त्रयो विभागाः क्रियन्ते, न कालाऽपेक्षया सदशाः । तत्र विषमेभ्यः त्रिभ्यो भागेभ्यो द्वित्रिभागे लोमस्य प्रथमस्थितिः कर्तव्या । यद्वा त्रयाणामश्वकर्ण करणाऽद्धाकिट्टि करणाऽद्धाकिट्टिवेदनाऽद्धानां परस्परं किश्चिन्यूनाधिक्यं भवति, तेन तद् विवक्षामनाश्रित्य ग्रन्थकारैः 'बितिभाग'इत्याद्युक्तम् ।
किहिवेदनविधि:- "वजिय" इत्यादि, सुक्षमसपरायस्य प्रथमसमये सत्तागतकिट्टीनामसंख्येयबहुभागमात्राः किट्टीवेदयति, तत्राऽपि याः किट्टयः किट्टिकरणाद्धाप्रथमसमयचरमसमयकृतास्ता वर्जयित्वाऽनुभवति । तत्राऽप्ययं विशेषः-सर्वोत्कृष्टाऽनुभागकिट्टरारभ्य प्रथमसमयकृतसकलकिट्टीनामसंख्येयभागप्रमाणा: किट्टीः सर्वमन्दानुभागकिट्ट श्वारस्य चरमसमयकृतसकलकिट्टीनामसंख्येयभागप्रमाणाः किट्टीः वर्जयित्वा शेषकिट्टीरनुभवति। किमुक्तं भवति? प्रथमसमयकृतसर्वोत्कृष्टनुभागकिट्टरारभ्य प्रथमसमयकृतकिट्टीनामुपरितनमसंख्येयभागं परित्यज्य शेषसर्वकिट्टि. गतं कियश्चित्तथा चरमसमयकृतमर्वजघन्याऽनुभागकिट्ट रारभ्य चरमसमय कृतकिट्टीनामधस्तनाऽ संख्येयतमभाग विमुच्य शेषसर्वकिट्टिगतं दलं तथा द्वितीयादिद्विचरमसमयपर्यवसानसमयकृतसर्वकिट्टिगतदलमुदयेनानुभवति। उक्तं च कर्मप्रकृतितिची-'जाओ अपदमसमयअचरिमेसु समएसु अपुव्वातो कथातो तातो पढमसमते सव्वतो दिन्नातो । जातो पढमसमते कयोतो तासिं अग्गगातो असखेजितभागं मोत्तणं, जातो य चरिमसमयकयाओ किहितो तासिं च जहन्नगपभिई असखेजतिभागं मोत्तणं जातो य चरिमसमयकया किहोतो तासिं च जहन्नगपभितिई असंखेज्जतिभागं मोत्तणं सेसानो उदोरेति। पढमसमयकयाण उवरिं चरिमसमयकयाणं हेहतो असंखेज्जति. भागं मोत्तण उदीरेत्ति। "इति । सूक्ष्म संपरायगुणस्थानकस्य द्वितीयादिसमयेषु यो विशेषो भवति, तमाविश्चिकीर्ष राह
गेराहतो य मुयंतो असंखभागो य चरिमसमयम्मि । उवसामेई बिईयटिइपि पुव्वं व सव्वद्धं ॥ ५५ ॥ गृह्णश्च मुञ्चन्नसंख्येयभागं तु चरमसमयम् ।।
उपशमयति द्वितीयस्थितिमपि पूर्ववत्सर्वाद्धाम् ॥५५॥ इति पदसंस्कार; किट्टिवेदनाऽद्धाया द्वितीयसमय उदयप्राप्तानां किट्टीनामुपरितनाऽसंख्येयभागं मुश्चति, अधस्तादपूर्व चाऽसंख्येयभागनुभवितुगृह्णाति । इदमत्र हृदयम्-प्रथमसमय उत्कृष्टाऽनुभागकिट्ट. रारभ्याऽमुकाः किट्टीः सर्वजघन्यकिट्ट रारभ्याऽमुकाः किट्टीश्च वर्जयित्वा शेषाः किट्टय उदय आ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org