________________
उपशमनाकरणम
२०६ ]
[ गाथा ५४ "सेसड'त्ति,शेषाद्धां शेषकालं तृतीये विभाग इत्यर्थः । तनुरागः सूक्ष्मसंपरायो भवति, स च बादरसंज्वलनलोमोदयविच्छेदसमय एवं प्राकृताः कियतीश्चिकिट्टीर्द्वितीयस्थितेः सकाशासमाकृष्य तावती सूक्ष्मसंपरायाद्धातुल्यां संज्वलनमानोक्नप्रकारेण प्रथमस्थितिं करोति वेदयति च सूक्ष्मसंपरायप्रथमस्थितिश्च बादरसंज्वलनलोभस्य प्रथमस्थितितः किश्चिन्यूना तदर्धप्रमाणा क्रियते । उक्तं च कषायप्राभृतचूर्णी "जा पढमसमथलोभवेदगस्स पढमहिदि तिस्से पढमहिदीए इमा सुहमसंपराइयस्स पढमहिदि दुभागो थोऊणाओ।" इति ।
अत्र कषायप्राभृतचूर्णिकाराणामिदं तात्पर्यम् -- लोभवेदकाद्धायास्त्रयो विभागाः क्रियन्ते ।(१) । प्रथमो विभागः केवलस्पर्धकसत्त्वकालः,अश्वकर्ण करणाऽद्धा (२) द्वितीयो विभागःकिट्टिकरणाऽद्धा (३) तृतीयो विभागः किट्टिवेदनाऽद्धा । तत्र कालाऽपेशया प्रभृतः प्रथमो विभागः,ततो विशेषहीनो द्वितीयविभागस्ततोऽपि विशेषहीन स्तृतीयो विभागः । प्रथमद्वितीयविभागाद् द्वयाद्धातो बादरसंज्वलनलोभस्य प्रथमस्थितिरेकावलि कयाऽधिका । सूक्ष्मलोभस्य प्रथम स्थितिश्च द्वितीयविभागलझणकिट्टिवेदकाऽद्धा प्रमाणा भवति, न न्यूनाऽधिका,वक्ष्यते चेतत्सर्वमल्पबहुत्वाऽधिकारे तद्यथा-"उवसामगस्स सुहमसंपरायडा किट्टिणमुवसामणडासुहमसंपराइयस्स पढमहिदि च तिणि वि तुल्लाओ विसेसाहिया। उवसमगस्स किटिकरणद्धा विसेसा. हिया पडिवदमाणगस्स बादरसंपराइयस्स लोभवेदगडा संखेजगुणा, तस्सेव लोहस्स तिविहस्सवि तुल्लो गुणसेदिनिक्खेवो विसेसाहियो उवसामगस्स यादरसंपराइयस्स लोभवेदगडा विसेसाहिया। तस्सेव पढमहिदि विसेसाहिया । इति । उपयुः क्ताऽल्पबहुत्वस्येदं तात्पर्यम्-सूक्ष्मसंपरायऽद्धातः किट्टिकरणाद्धा विशेषाधिका, ततोऽपि श्रेणितः प्रतिपततो बादरसंपरायस्य लोभवेदकाद्धा संख्येयगुणा तनोऽपि श्रेणितः प्रतिपततो जीवस्य लोभत्रयस्य गुणश्रेणिनिक्षेपो विशेषाऽधिकः,तत उपशमकस्योपशमश्रेणिं प्रतिपद्यमानस्य जन्तोर्बादरसंपरायगुणस्थानके लोभवेदकाद्धा विशेषाऽधिका । अत्र किट्टिकरणाद्धातः श्रेणितः प्रतिपततो जन्तोर्वादरसंपरायकालस्य संख्यातगुणत्वेन संख्यातगुणस्य जघन्यतोऽपि द्विगुणत्वेन श्रेणिं प्रतिपद्यमानस्य जन्तोर्वादरसंपरायकालो द्विगुणतोऽप्यधिको भवति । बादरसंपरायलोभवेदकाऽद्धाया द्वौ विभागौ क्रियेते, तत्रैकोऽऽश्वकर्णकरणाद्धा अन्यश्च किट्टिकरणाद्धेति कृत्वा प्रथमाधोंऽश्वकर्णकरणाद्धा द्वितीयकिट्टिकरणाद्धातो विशेषाधिको भवति । न च पूर्व लोभवेदकाद्धाया द्वित्रिभाग: प्रमाणा प्रथमस्थितिः क्रियत इत्युक्तम् कथमेतत्संगच्छते ? यतो लोभवेदकाऽद्धाया द्वित्रिभागतः किश्चिदधिकः केवलो बादरलोभवेदककालः प्रथमस्थितिस्तु ततोऽप्यावलिकाऽधिकेति वाच्यम्, पूर्वकथनस्य सामान्यत्वेन विरोधाऽभावात् । अयं भावः-अनिवृत्तिकरणवक्तव्यतायां लोभवेद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org