SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ नवमगुण. चरमसमयः ] चारित्रमोहनीयोपशमनाधिकारः [ २०५ करणद्धाया आवलिकाप्रत्यावलिकालझणद्वयाऽऽवलिकाशेषायां पुनः बादरसंज्वलनलोभस्याऽऽगालो व्यवच्छिद्यते । उदीरणा तु प्रथमस्थितेर्द्विचरमावलिकातस्तावत्प्रवर्तते,यावदावलिका शेषा भवति । उदीरणावलिकाचरमसमय एते पदार्थो भवन्ति (१) अनिवृत्तिवादरसंपरायगुणस्थानकचरमसमयः नवमगुणस्थानकस्य चरमसमय इत्यर्थः । (२) बादरसंज्वलनलोभोदयोदीरणायाश्चरमसमयः । (३) संज्वलनलोभमत्कचरमस्थिति बन्धः । (४) संज्वलनलो भस्य अन्ते' किट्टिकरणाद्धायाश्चरमसमये स्थितिबन्धोऽन्तमुहूर्तप्रमाणस्तथा 'सिं' त्ति तेषां घातिकर्मणामन्तर्दिवसस्याऽन्तरहोरात्रस्य स्थितिवन्धः, अघातिनां तु नामगोत्रवेदनीयानां स्थितिबन्धादन्यो हीनो हीनतरः स्थितिबन्धो भवंस्तस्मिन् किट्टिकरणाद्धाचरमसमये 'द्विवर्षस्य' द्वयोर्वर्षयोरन्तर्मध्ये भवति ___ ततोऽनन्तरसमये किट्टिकरणाद्धाया आवलिकाकाले शेषेऽमी पदार्थाः प्रवर्तन्ते(१) संज्वलनलोभस्य बन्धो व्यवछिद्यते । (२) बादरसंज्लनलोभम्योदयोदीरणयोर्व्यवच्छेदः । (३) अनिवृत्तिबादरसंपरायगुणस्थानकस्य व्यवच्छेदः । (४) अप्रत्याख्यानप्रन्याख्यानावरणौ सर्वथोपशान्तौ । (५) 'किटिओ'त्ति, किट्टिकृतं द्वितीयस्थितिगतं यद्दलिकं तथा जं च पुन्वत्तं यत्पूर्वोक्तं समयोनावलिकाद्विकेन बद्धमभिनवदलिकं यच्च प्रथमस्थितेरुदयावलकारूपैकाऽऽवलिकागतदलिकं शेषीभूतमेतत्सर्व 'लोभस्स' ति, लोभस्य' संज्वलनलोभस्याऽनुपशान्तं वर्तते, शेषं पुनः सर्वात्मनोपशान्तम् । प्रथमस्थिते_दरसंज्वलनलोभस्य शेषीभृतामावलिकामानां स्थिति सूक्ष्मकिट्टिमनुभवन् स्तिबुक - सङ्क्रमेण च संक्रमय्य वेदयति तथा समयोनावलिकाद्वयेन संज्वलनलोभस्य बद्धं दलिकमपि सूक्ष्मसंज्वलनलोभमनुभवन् किट्टीचोपशमयंस्तावता कालेन संज्वलनक्रोधोक्तप्रकारेणोपशमयति । अथ सूक्ष्मसंपरायगुणस्थानकस्य वक्तव्यतां व्याजिहीषु राह सेमद्धं तणुरागो तावईया किट्टिऊ य पढमठिई । वज्जिय असंखभागं हे?वरिमुदीरए सेसा ॥ १४ ॥ शेषाद्धो तनुरागस्तावतों किट्टितश्च प्रथमस्थितिम । वर्जयित्वाऽसंख्येयभागमधश्वोपयुदोरयति शेषाः । ॥५४॥ इति पदसंस्कारः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy