________________
२०४ ] उपशमनाकरणम्
[ गाथा ५२-५३ प्रदेशविशिष्टकिट्टियां ये प्रदेशा आसन्, ते द्वितीयसमयकृतसर्वोत्कृष्टप्रदेशविशिष्ट किट्टिगतप्रदेशतोऽ संख्येयगुणहीना अर्थात् प्रथमसमयकृतसर्वोत्कृष्टप्रदेशविशिष्ट किट्टिगता ये प्रदेशा आसन , ततोऽ. संख्येयगुणप्रदेशा द्वितीयसमयकृतसर्वोत्कृष्टप्रदेशविशिष्टायां किट्टी भवन्तीत्यर्थः । कर्मप्रकृतिटीकाकारैः प्रथमसमयकृतसर्वोत्कृष्टप्रदेशविशिष्टकिट्टिगतदलिकतो द्वितीयसमयकृतसर्वजघन्यप्रदेशविशिष्टकिट्टिगतदलमसंख्येयगुणमिति यदुक्तं तदप्यनया नीत्या संगच्छते । विशेषस्तु आपकश्रेण्यां विवृत्तमस्माभिस्तथा मलयगिरिटीकायामपि प्रथमसमयकृतानां किट्टीनां मध्ये या सर्वबहुप्रदेशा किट्टिः, सा स्तोकप्रदेशा ततो द्वितीयसमयकृतानां किट्टीनां मध्ये या सर्वाऽल्पप्रदेशा किट्टिः साऽसंख्येयगुणप्रदेशा, एवं तावद्वाच्यम्, यावच्चरमसमयः । एवमुपाध्यायपुगवैरप्युक्तम् ।। _ 'मोहे' मोहनीये संज्वलनानां चातुर्मासिकास्थितिबन्धादारभ्याऽन्योऽन्यः स्थितिबन्धः संख्येयभागेनोनोऽन्तरस्तावद्वक्तव्यः, यावकिट्टिकरणाऽद्धायाः प्रथमसमये दिवसपृथक्त्वप्रमाणः स्थितिबन्धो भवति । स च प्राग्यथास्थानमुक्तः। किट्टिकरणाऽद्धायाः संख्येयेषु भागेषु गतेषु सत्सु यद्भवति, तदाह--
भिन्नमुहुत्तो संखेज सु य वाईण दिणपुहुत्तं तु । वाससहस्सपुहुत्तं यतो दिवसस्म अंते सिं ।। ५२ ।। वाससहस्सपुहुत्ता बिवरिस अंतो अघाइकम्माणं । लोभस्स अणुवसंतं किट्टियो जं च पुवुत्तं ।। ५३ ।। भिन्नमुहूर्तः संख्येयेषु च घातिनीनां दिनपृथक्त्व ततः । वर्षसहस्रप्रथक्त्वमन्तदिवसस्यान्ते तेषाम् ॥५२॥ वर्षसहस्रपृथक्त्वाद् द्विवर्षस्यान्तोऽघातिकर्मणाम् ।
लोभस्यानुपशान्तं किट्टय यच्च पूर्वोक्तम् ॥५३ ।। इति पदसंस्कार! "भिन्नमुहूत्तो" इत्यादि, अस्याः किष्टिकरणाऽद्धायाः संख्यातेषु मागेषु वजितेषु सत्सु संज्वलनलोभस्य स्थितिबन्धो भिन्नमुहुर्तप्रमाणो भवति, अन्तमुहतंप्रमाणो भवतीत्यर्थः, त्रयाणां घातिकर्मणां दिनपृथक्त्वप्रमाणः, नामगोत्रवेदनीयानां च वर्षसहस्रपृथक्त्वम्, प्रभूतवर्षसहस्रप्रमाणः,किट्टिकरणाऽद्धाया द्विचरमस्थितिबन्धं यावस्थितिबन्धो नामगोत्र वेदनीयानां प्रभृतवर्षसहस्रप्रमाणो भवति, पृथक्त्वशब्दस्याऽत्र बहुत्ववाचित्वात । किट्टिकरणाद्धायाः (बादरसंज्वलन लोभस्य प्रथमस्थितेः) समयोनावलिकात्रिके शेषेऽप्रत्याख्यानप्रत्याख्यानावरणयोर्दलिकं संज्वलनलोभे न संक्रमयति, तस्य पतद्ग्रहतानिवृत्तेः। किन्तु स्वस्थान एव स्थितमुपशमं नीयते,किट्टि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org