________________
किट्टिषु दलनिक्षेपः ] चारित्रमोहनीयोपशमनाधिकारः
[ २०३ ____ ननु प्रथमसमयकृतसकलकिट्टिगतं दलिकं स्तोकम्, ततो द्वितीयसमयेऽसंख्येयगुणं दलिकं गहीत्वा किट्टीः करोतीत्यादि यदुक्तम्, तत्र द्वितीयादिसमयेषु किट्टयर्थं गृह्यमाणदलिकतो नवा नवाः किट्टी: करोति, तदा पूर्वकिट्टष्वपि दलिकं प्रक्षिपति न वा इति चेद् ! उच्यते-कर्मप्रकृतिचूादौ न कश्चिद्विशेषोऽभिहितः, किन्तु कषायप्राभृतचूर्णा इदमुक्तम् । तद्यथा-प्रथमसमयकृतसर्वोस्कृष्टप्रदेशविशिष्ट किट्टिगतदलिकतोऽसंख्येयगुणं दलिकं द्वितीयसमयकृतायां जघन्याऽनुभागकियां प्रक्षिपति,ततः परमुत्तरोत्तरकिट्टिषु विशेषहीनं दलिकं प्रक्षिपति, एवं तावद्वक्तव्यम्, यावदोघो. त्कृष्टा किट्टिः । अत्रौधोत्कृष्टशब्देन द्वितीयसमयेऽपि प्रथमसमयसत्कोकृष्टानुभागां किट्टि यावद्विशेषहीनक्रमेण प्रक्षिपतीति व्याख्येयम् । अन्यथा कषायप्राभृतचूर्णौ द्वितीयसमये तत्समयकृतामुत्कृष्टाऽनुभागां फिट्टि यावद्वक्तव्यं स्यादित्यस्माकं तात्पर्यव्याख्यानम् । तथा च तद्ग्रन्थः-* पढमसमए जहणियाए किट्टिए पदेसग्गं बहुअं,बिदियाए पदेसग्गं विसेसहीणं। एवं जाव चरिमाए किट्टिए पदेसग्गं तं विसेसहीणं । बिदियसमए जहणियाए किट्टीए पदेसग्गमसखेजगुणं । विदियाए विसेसहीणं । एवं जाव ओघुक्कसियाए विसेसहीणं ।" इति । परः शङ्कते--ननु प्रथमसमयकृतसर्वोत्कृष्टप्रदेशविशिष्टकिट्टिगतदलिकतो द्वितीयसमयकृतसर्वोत्कृष्टकिट्टयामसंख्येयगुणदलिकं भवतीति कर्मप्रकृतिचूर्णिकाराणामभिप्रायः, तथा च तद्ग्रन्थः- "जा पढमसमयकयाणं किट्टीणं सव्वषहुपयेसा किट्टी सा बितियसमयकयाणं सव्वबहुपदेसातो किहितो असंखेजगुणहीणा एवं अणंतराणंतरेण णेयव्वं" इति । पूर्वोक्तनिक्षेपक्रमे कथं कर्मप्रकृत्यक्षराणि संगच्छन्ते ? इदमुक्तं भवति-प्रथमसमयकृतकिट्टिपु प्राग् यद्दलिकमासीत्पुनर्द्वितीयसमयेऽपि किट्टीः कुर्वस्तत्र नूतनदलिकं प्रक्षिपति, द्वितीयसमये क्रियमाण किट्टिषु तु केवलमभिनवदलिकं भवत्यतो द्वितीयसमयकृतसर्वोत्कृष्टकिट्टिगतदलिकं प्रथमसमयकृतसर्वोत्कृष्टप्रदेशविशिष्टकिट्टिगतदलिकतोऽसंख्येयगुणं कथं सिध्यति ? अत्रोत्तरम् - उपयुक्ताऽल्पबहुत्वे प्रथमसमयकृतसर्वोत्कृष्टप्रदेशविशिष्टकिया दलिकं द्वितीयसमयकृतसर्वोत्कृष्ट प्रदेशविशिष्टकिट्टिगतदलिकतोऽसंख्येयगुणहीनं यदुक्तम्, तद् द्वितीयसमये प्रथमसमयकृतकिट्टयां निक्षेपविवक्षामनाश्रित्योक्तम् । अयं भावः-प्रथमसमयकृतसर्वोत्कृष्ट
टिप्पणी-किट्रिकरणाऽद्धायाः सर्वसमयेषु कृताः किट्टयो जघन्याऽनुभागादारभ्य क्रमश उत्कष्टाऽनुभागपर्यन्तं स्थाप्यते तहि पूर्वपूर्वत उत्तरोत्सरकिट्टयोऽनुभागमाश्नित्याऽनन्तगुणहीना दलिकमाश्रित्य विशेषहोना गोपुच्छाकारो भवन्तीति लब्धिसार उक्तम्, तच्च तेषां मतानुसारेण,ततो दलिकनिक्षेपविधिज्ञतिव्यः । *जयधवलायां तु स्पर्धकेष्वपि निक्षेपोऽभिहितः, तथाहि "तदो जहण्णफड्डया दिवग्गणाए अणंतगुणहीणं ततो विसेसहीणं अणंतमागेण त्ति णेदव्यं जाव उक्कस्सफड्डयादो जहण्णाइच्छावणामेत्तफड्डयाणि हेद्रा प्रोसरिदूण द्विदतदित्थफड्डयस्स उक्कस्सिया बरगणा त्ति ।" इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org