________________
२०२ ]
[ गाथा ५१
मन्दाऽनुभागा किट्टिस्तस्यां दलिकं सर्वप्रभूतम्, ततस्तन्मध्यगत द्वितीय विद्यावनन्तरेणाऽनन्तगुणा. Sनुभागेनाऽधिकार्या दलिकं विशेषहीनम्, ततोऽप्यनन्तरेणाऽनन्तगुणेनाऽनुभागेनाऽधिकायां तन्मध्यगततृतीय किट्टौ विशेषहीन मेवमनन्तरानन्तरानन्तगुणाऽनुभागाऽधिकासु किट्टिषु विशेषनं तावदभिदध्याद् यावत्प्रथमसमयकृतानां किट्टीनां मध्ये सर्वोत्कृष्ट किट्टिरिति । अयं क्रमः सर्वेष्वपि समयेषु प्रत्येकस्मिन् किट्टिसमुदाये वाच्यः ।
किट्टिगताऽनुभागमाश्रित्याऽल्पबहुत्वं मोहनीयस्य च स्थितिबन्धं निजिगदिपुराह -- अणुभागोणंतगुणो चाउम्मासाइ संखभागूणो ।
मोहे दिवसपुहुत्तं किट्टिकरणा इसमयम्मि || ५ १ ॥
उपशमनाकरणम्
श्रनुभागोऽनन्तगुणश्र्वातुर्मासिकात् संख्येयभागोनः ।
मोहस्य दिवस पृथक्त्वं किट्टीकरणादिसमये ।। ५१ ।। इति पदसंस्कार: प्रथमसमयकृतासु किट्टिषु सामान्येनानुभागः सर्वप्रभूतः ततो द्वितीय समय कृतासु किट्टिषु सामस्त्येनाऽनन्तगुणहीनः, ततोऽपि तृतीयसमयकृतास्वनन्तगुणहीनः । एवं तावदभिधातव्यम्, यावत्किट्टिकरणाद्धायाश्चरमसमयः ।
अथ विशेषतस्तत्समयकृतकिट्टिगताऽनुभागमाश्रित्याऽन्पबहुत्वमाह - "अणुभागोणंतगुणो' त्ति, प्रथमसमयकृतानां किट्टीनामनुभागो यथोत्तरमनन्तगुणो वाच्यः । तद्यथा- प्रथमसमयकृतानां किट्टीनां मध्ये या सर्वमन्दाऽनुभागा किट्टिः, तस्याः सर्वस्तोकोऽनुभागः, ततो द्वितीय किट्टरनन्तगुणोऽनुभागः, ततोऽपि तृतीय किट्ट े रनुभागोऽनन्तगुणः, एवं तावद्वक्तव्यम्, यावत्प्रथमसमये कृतानां किट्टीनां मध्ये सर्वोत्कृष्टाऽनुभागा किट्टिरिति । एवं द्वितीयादिष्वपि समयेषु कृतानां किट्टीनामनुमागमाश्रित्याऽल्पबहुत्वमभिधातव्यम् । इदमत्र हृदयम्-तत्तत्समयकृताः किट्टयः क्रमशः स्थापयितव्याः । किमुक्तं भवति १ प्रथमसमये कृतासु किट्टिषु सर्वपूर्वतोऽधिकाऽनुभागाः किट्टयः तावत्स्थापयितव्याः, यावत्सर्वोत्कृष्ट किट्टिः, एवं द्वितीय समय कृतकिट्टयः स्थापयितव्याः । स्थाप्यमानानां किट्टीनामनुभागः पूर्वपूर्वतोऽनन्तगुणो वाच्यः, दलिकं तु विशेषहीनं विशेषहीनं वाच्यम्, तच्च प्राग्भावितमेव । तथा प्रथमसमये कुतानां किट्टीनां मध्ये या सर्वमन्दाऽनुभागा किट्टिः, तस्याः सर्वप्रभूतोऽनुभागः, ततो द्वितीयसमये कृतानां किट्टीनां मध्ये या सर्वोस्क्रुष्टाऽनुभागा किट्टिः, तस्या अध्यनन्तगुणहीनः । ततो द्वितीयसमयकृतसर्वमन्दाऽनुभागकिट्टग्नुभागोऽनन्तगुणहीनः, ततस्तृतीयसमय कृत सर्वोत्कृष्टानुभाग किट्ट रनन्तगुणहीनोऽनुभागः । एवं किट्टिकरणाऽद्धायाश्वरमसये कृतानां किट्टीनां मध्ये सर्वमन्दाऽनुभाग किट्टे रनन्तगुणहीनोSनुभागो वक्तव्यः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org