SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ [ २०१ किट्टीनां प्रमाणम् ] चारित्रमोहोपशमनाधिकारः किट्टीनां प्रमाणम्-'एगफडगवग्गण अणंतभागो' त्ति, एकस्मिन्ननुभागस्पर्धके या अनन्ता वर्गणास्तासामनन्ततमे भागे यावत्यो वर्गणास्तावतीः किट्टीः प्रथमसमये करोति । ताश्चाऽनन्ताः। ननु ताः किट्टयः किमपूर्वस्पर्धकसत्कसर्वजघन्यमनुभागस्पर्धकाऽनुभागेन सदृशाः करोत्युत ततोऽपि हीनाः ?उच्यते, ततोऽपि हीनाः, तदेवाऽऽह 'हेट्ठा' ति, # यत्सर्वजघन्यमनुभागस्पर्धकं तस्याऽधस्तात्करोति,ततोऽप्यनन्तगुणहीनरसा करोतीत्यर्थः । किट्टिकरणाऽद्धायां यावतीः किट्टीः करोति तत्प्रदिदर्शयिषुराह श्रणुसमयं सेढीए असंखगुणहाणि जा अपुवायो। तविरियं जहन्नगाई विसेसूणं ॥५०॥ अनुसमय श्रेण्याऽसंख्यगुणहानिर्या अपूर्वाः ।। तद्विपरीतं दलिकं जघन्यादितो विशेषोनम् ॥५०॥ इति पदसंस्कारः 'अनुसमयं' इति समये समय इति वीप्साम् “योग्यतावीप्स." इति सिद्धहेम(३-१-४०) सूत्रेणाऽव्ययीभावसमासः, प्रतिसमयमपूर्वां या नवा नवाः किट्टीः करोति, ताः प्रतिसमयमसंख्येयगुणहानियुक्तश्रेणिभाजो द्रष्टव्याः । नवत्वं चाऽत्र प्रतिसमयं यथोत्तरमनन्तगुणहीनरसत्वापादनेन द्रष्टव्यम् । भावार्थः पुनरयम्-किट्टिकरणाऽद्धाया प्रथमसमये प्रभूताः किट्टीः करोति, ततो द्वितीयसमयेऽसंख्येयगुणहीनाः करोति, ततोऽपि तृतीयसमयेऽसंख्येयगुणहीनाः। एवं क्रमेण तावद् वक्तव्यम्,यावकिट्टिकरणाऽद्धायाश्चरमसमयः । अथ किट्टिगतं दलिकमभिधीयते 'तविवरियं' ति, दलिकं तद्विपरितं किट्टिसंख्याविपरितं द्रष्टव्यम् । तथाहि प्रथमसमये सकलकिट्टिगतं दलिकं सर्वस्तोकं ततो द्वितीयसमये सकलकिट्टिगतं दलिकमसंख्येयगुणम् ततोऽपि तृतीयसमये सकलकिट्टिगतं दलिकमसंख्येयगुणम् । एवं तावद्वक्तव्यं यावत्किट्टिकरणाद्धायाश्चरमसमयः । ___ संप्रति प्रथमसमयकृताना किट्टीनां परस्परं प्रदेशप्रमाणं निरूपणार्थमाह-'जहन्नगाइ विसेसूणं'त्ति, जघन्यकादिविशेषोनं जघन्यमादिं कृत्वा परतः क्रमेण प्रतिकिट्टि विशेषोनं विशेपोनं प्रदेशाग्रमभिधातव्यम् । इदमत्र हृदयम्-प्रथमसमयकृतास्ववनन्तासु किट्टिषु मध्ये या सर्व ॐ अस्माद् (संज्वलनलोभसत्त्वद्रव्यात) प्रथमसमये द्रव्यमपकृष्य संज्वलनलोभजघन्यस्पर्धकलतासमानादिवर्गणाविभागप्रतिच्छेदेभ्योऽधस्तादनंतगुणहीनाऽविभागप्रतिच्छेदकतया एकस्पर्धकवर्गणाशलाकानन्तकभागप्रमिता अनुभागसूक्ष्म किट्टी: करोति। अन्तमुहर्तकालनिवर्त्यमानाऽनुभागकण्डकघातं विनेदानी प्रतिसमयं सर्वजघन्यशक्त्यनन्तकभागप्रमितत्वेन कृष्टिघातं कतु प्रारभत इत्यर्थः। (लब्धिसार: २८३) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy