Book Title: Karmaprakrutigatmaupashamanakaranam
Author(s): Shivsharmsuri, Gunratnasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 262
________________ २०४ ] उपशमनाकरणम् [ गाथा ५२-५३ प्रदेशविशिष्टकिट्टियां ये प्रदेशा आसन्, ते द्वितीयसमयकृतसर्वोत्कृष्टप्रदेशविशिष्ट किट्टिगतप्रदेशतोऽ संख्येयगुणहीना अर्थात् प्रथमसमयकृतसर्वोत्कृष्टप्रदेशविशिष्ट किट्टिगता ये प्रदेशा आसन , ततोऽ. संख्येयगुणप्रदेशा द्वितीयसमयकृतसर्वोत्कृष्टप्रदेशविशिष्टायां किट्टी भवन्तीत्यर्थः । कर्मप्रकृतिटीकाकारैः प्रथमसमयकृतसर्वोत्कृष्टप्रदेशविशिष्टकिट्टिगतदलिकतो द्वितीयसमयकृतसर्वजघन्यप्रदेशविशिष्टकिट्टिगतदलमसंख्येयगुणमिति यदुक्तं तदप्यनया नीत्या संगच्छते । विशेषस्तु आपकश्रेण्यां विवृत्तमस्माभिस्तथा मलयगिरिटीकायामपि प्रथमसमयकृतानां किट्टीनां मध्ये या सर्वबहुप्रदेशा किट्टिः, सा स्तोकप्रदेशा ततो द्वितीयसमयकृतानां किट्टीनां मध्ये या सर्वाऽल्पप्रदेशा किट्टिः साऽसंख्येयगुणप्रदेशा, एवं तावद्वाच्यम्, यावच्चरमसमयः । एवमुपाध्यायपुगवैरप्युक्तम् ।। _ 'मोहे' मोहनीये संज्वलनानां चातुर्मासिकास्थितिबन्धादारभ्याऽन्योऽन्यः स्थितिबन्धः संख्येयभागेनोनोऽन्तरस्तावद्वक्तव्यः, यावकिट्टिकरणाऽद्धायाः प्रथमसमये दिवसपृथक्त्वप्रमाणः स्थितिबन्धो भवति । स च प्राग्यथास्थानमुक्तः। किट्टिकरणाऽद्धायाः संख्येयेषु भागेषु गतेषु सत्सु यद्भवति, तदाह-- भिन्नमुहुत्तो संखेज सु य वाईण दिणपुहुत्तं तु । वाससहस्सपुहुत्तं यतो दिवसस्म अंते सिं ।। ५२ ।। वाससहस्सपुहुत्ता बिवरिस अंतो अघाइकम्माणं । लोभस्स अणुवसंतं किट्टियो जं च पुवुत्तं ।। ५३ ।। भिन्नमुहूर्तः संख्येयेषु च घातिनीनां दिनपृथक्त्व ततः । वर्षसहस्रप्रथक्त्वमन्तदिवसस्यान्ते तेषाम् ॥५२॥ वर्षसहस्रपृथक्त्वाद् द्विवर्षस्यान्तोऽघातिकर्मणाम् । लोभस्यानुपशान्तं किट्टय यच्च पूर्वोक्तम् ॥५३ ।। इति पदसंस्कार! "भिन्नमुहूत्तो" इत्यादि, अस्याः किष्टिकरणाऽद्धायाः संख्यातेषु मागेषु वजितेषु सत्सु संज्वलनलोभस्य स्थितिबन्धो भिन्नमुहुर्तप्रमाणो भवति, अन्तमुहतंप्रमाणो भवतीत्यर्थः, त्रयाणां घातिकर्मणां दिनपृथक्त्वप्रमाणः, नामगोत्रवेदनीयानां च वर्षसहस्रपृथक्त्वम्, प्रभूतवर्षसहस्रप्रमाणः,किट्टिकरणाऽद्धाया द्विचरमस्थितिबन्धं यावस्थितिबन्धो नामगोत्र वेदनीयानां प्रभृतवर्षसहस्रप्रमाणो भवति, पृथक्त्वशब्दस्याऽत्र बहुत्ववाचित्वात । किट्टिकरणाद्धायाः (बादरसंज्वलन लोभस्य प्रथमस्थितेः) समयोनावलिकात्रिके शेषेऽप्रत्याख्यानप्रत्याख्यानावरणयोर्दलिकं संज्वलनलोभे न संक्रमयति, तस्य पतद्ग्रहतानिवृत्तेः। किन्तु स्वस्थान एव स्थितमुपशमं नीयते,किट्टि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332