Book Title: Karmaprakrutigatmaupashamanakaranam
Author(s): Shivsharmsuri, Gunratnasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text ________________
नवमगुण. चरमसमयः ] चारित्रमोहनीयोपशमनाधिकारः
[ २०५ करणद्धाया आवलिकाप्रत्यावलिकालझणद्वयाऽऽवलिकाशेषायां पुनः बादरसंज्वलनलोभस्याऽऽगालो व्यवच्छिद्यते । उदीरणा तु प्रथमस्थितेर्द्विचरमावलिकातस्तावत्प्रवर्तते,यावदावलिका शेषा भवति । उदीरणावलिकाचरमसमय एते पदार्थो भवन्ति
(१) अनिवृत्तिवादरसंपरायगुणस्थानकचरमसमयः नवमगुणस्थानकस्य चरमसमय इत्यर्थः । (२) बादरसंज्वलनलोभोदयोदीरणायाश्चरमसमयः । (३) संज्वलनलोभमत्कचरमस्थिति बन्धः ।
(४) संज्वलनलो भस्य अन्ते' किट्टिकरणाद्धायाश्चरमसमये स्थितिबन्धोऽन्तमुहूर्तप्रमाणस्तथा 'सिं' त्ति तेषां घातिकर्मणामन्तर्दिवसस्याऽन्तरहोरात्रस्य स्थितिवन्धः, अघातिनां तु नामगोत्रवेदनीयानां स्थितिबन्धादन्यो हीनो हीनतरः स्थितिबन्धो भवंस्तस्मिन् किट्टिकरणाद्धाचरमसमये 'द्विवर्षस्य' द्वयोर्वर्षयोरन्तर्मध्ये भवति ___ ततोऽनन्तरसमये किट्टिकरणाद्धाया आवलिकाकाले शेषेऽमी पदार्थाः प्रवर्तन्ते(१) संज्वलनलोभस्य बन्धो व्यवछिद्यते । (२) बादरसंज्लनलोभम्योदयोदीरणयोर्व्यवच्छेदः । (३) अनिवृत्तिबादरसंपरायगुणस्थानकस्य व्यवच्छेदः । (४) अप्रत्याख्यानप्रन्याख्यानावरणौ सर्वथोपशान्तौ । (५) 'किटिओ'त्ति, किट्टिकृतं द्वितीयस्थितिगतं यद्दलिकं तथा जं च पुन्वत्तं यत्पूर्वोक्तं समयोनावलिकाद्विकेन बद्धमभिनवदलिकं यच्च प्रथमस्थितेरुदयावलकारूपैकाऽऽवलिकागतदलिकं शेषीभूतमेतत्सर्व 'लोभस्स' ति, लोभस्य' संज्वलनलोभस्याऽनुपशान्तं वर्तते, शेषं पुनः सर्वात्मनोपशान्तम् ।
प्रथमस्थिते_दरसंज्वलनलोभस्य शेषीभृतामावलिकामानां स्थिति सूक्ष्मकिट्टिमनुभवन् स्तिबुक - सङ्क्रमेण च संक्रमय्य वेदयति तथा समयोनावलिकाद्वयेन संज्वलनलोभस्य बद्धं दलिकमपि सूक्ष्मसंज्वलनलोभमनुभवन् किट्टीचोपशमयंस्तावता कालेन संज्वलनक्रोधोक्तप्रकारेणोपशमयति । अथ सूक्ष्मसंपरायगुणस्थानकस्य वक्तव्यतां व्याजिहीषु राह
सेमद्धं तणुरागो तावईया किट्टिऊ य पढमठिई । वज्जिय असंखभागं हे?वरिमुदीरए सेसा ॥ १४ ॥ शेषाद्धो तनुरागस्तावतों किट्टितश्च प्रथमस्थितिम । वर्जयित्वाऽसंख्येयभागमधश्वोपयुदोरयति शेषाः । ॥५४॥ इति पदसंस्कारः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332