Book Title: Karmaprakrutigatmaupashamanakaranam
Author(s): Shivsharmsuri, Gunratnasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 230
________________ १७२ । उपशमनाकरणम् [ गाथा ४२ दानान्तरायमनःपर्यवज्ञानावरणयोरनुभागबन्धं देशघातिनं करोतीत्यर्थः । ततः संख्यातेषु स्थितबन्धेषु गतेषु सत्स्ववधिज्ञानावरणाऽवधिदर्शनावरणलामाऽन्तरायाणामनुभागं देशघातिनं बध्नाति, ततोऽपि संख्येयेषु स्थितिबन्धेषु गतेषु सत्सु श्रुतज्ञानावरणभोगाऽन्तरायाऽचक्षुर्दर्शनावग्णानामनु. भागं देशघातिनं बध्नाति । ततो भूयोऽपि स्थितिबन्धेषु सहस्रष्वतीतेषु चक्षदर्शनावरणस्याऽनु. भागबन्धं देशघातिनं करोति । ततो पुनरपि संख्येयेषुः स्थितिबन्धसहस्र पु व्यतिक्रान्तेषु सत्सु "मइसपरिमोग"ति, मतिज्ञानावरणस्य परिभोगान्तरायसहितस्याऽनुभागं देशघातिनं बध्नाति, मतिज्ञानावरणपरिभोगान्तराययोरनुभागं देशघातिनं बध्नातीत्यर्थः । ततःपुनरपि स्थितिबन्धसहनेषु गतेषु सत्सु वीर्यान्तरायस्याऽनुभागं देशघातिनं बाध्नाति असे ढिगया'त्ति, क्षपकश्रेणिमुपशमश्रेणिवाऽनधिगताः सर्वे जन्तवः संसारे पूर्वोक्तानि दानान्तरायादीनि कर्माणि सर्वघातीनि बध्नन्ति तेषामनुभागं सर्वघातिनं बध्नन्तीत्यर्थः । मोहनीयस्य त्रयोदशप्रकृतीनां देशघातिकरणस्याकथनं तु षष्ठगुणस्थाने तासां देशघातित्वस्य बंध उहये च भावात् । बन्धमाश्रित्य पूर्वोक्तानां वीर्यान्तरायस्य च देशघातिरसभवनान्तरं सहस्रषु स्थितबन्धेषु गतेष्वन्तरकरणं कतु भारभते, तद्वक्तुकाम आह संजमघाईणंतरमेत्थ उ पढमठिई य अन्नयरे । संजलणावेयाणं वेइज्जतीण कालसमा ॥१२॥ संयमघातिनामन्तरमत्र तु प्रथमस्थितिश्चान्यतरस्य । संज्वलनवेदाना वेद्यमानानां कालसमा ॥४२॥ इति पदसंस्कारः । "संजमघाईणं" ति, बन्धे वीर्यान्तरायस्य देशपात्यनुभागभवनाऽनान्तरं संख्येयेषु स्थितिबन्धेषु गतेपु मत्सु मंयमघातिनां कर्मणामनन्तानुबन्धिवर्जाना द्वादशानां कषायाणां नवनोकरायाणां च "अतरं" त्ति, अन्तरकरणं करोतीत्ये कविंशतिप्रकृतीनामन्तरकरणं कतु मुपक्रमतेऽनन्तानुबन्धिनां तु मर्वोपशमनात् सर्वक्षयाद्वा तदर्जनम् । तत्र चतुर्णा क्रोधादीनां संज्वलनानामन्यनमस्य यस्य संज्वलनस्योदयस्त्रयाणां च वेदानां पुरुषादीनामन्यतमस्य यस्य वेदस्योदयम्तयोर्वेदकपाययोः कर्मणोः प्रथमास्थितिः स्वोदयकालप्रमाणाऽन्तम हूतप्रमाणा भवतीत्यर्थः । यद्यपि संज्वलनकाधेनापशमश्रेणिं प्रतिपन्नम्य यावदप्रत्याख्यानप्रत्यख्यानक्रोधोपशमोन भवति, तावरज्वलख्येयसमयप्रबद्धानामुदोरणा भवति । इतः पूर्वमपकृष्टद्रव्यस्य पल्याऽसंख्यातभागखण्डितस्य बहभागद्रव्यमुपरितनस्थिती निक्षिप्य तदेकभागं पुनरसंख्यातलोकेन खण्डयित्वा तद्वहभागद्रव्य गुणश्रेण्यायामे निक्षिप्य तदेकमागमुदयावल्यां निक्षिपतीति समयप्रबद्धासंख्यातकभागमात्र मेवोदीरणाद्रव्यम् । इदानी पुनरसंख्यातलो मितं भागहारं त्यक्त्वा पल्यासंख्यातभागेन खण्डितकभागमुदयावल्यां निक्षिपतीत्यसं. ख्येयसमयप्रबद्ध मात्रमुदीरणाद्रव्यमित्यर्थः ॥२३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332