________________
१७२ । उपशमनाकरणम्
[ गाथा ४२ दानान्तरायमनःपर्यवज्ञानावरणयोरनुभागबन्धं देशघातिनं करोतीत्यर्थः । ततः संख्यातेषु स्थितबन्धेषु गतेषु सत्स्ववधिज्ञानावरणाऽवधिदर्शनावरणलामाऽन्तरायाणामनुभागं देशघातिनं बध्नाति, ततोऽपि संख्येयेषु स्थितिबन्धेषु गतेषु सत्सु श्रुतज्ञानावरणभोगाऽन्तरायाऽचक्षुर्दर्शनावग्णानामनु. भागं देशघातिनं बध्नाति । ततो भूयोऽपि स्थितिबन्धेषु सहस्रष्वतीतेषु चक्षदर्शनावरणस्याऽनु. भागबन्धं देशघातिनं करोति । ततो पुनरपि संख्येयेषुः स्थितिबन्धसहस्र पु व्यतिक्रान्तेषु सत्सु "मइसपरिमोग"ति, मतिज्ञानावरणस्य परिभोगान्तरायसहितस्याऽनुभागं देशघातिनं बध्नाति, मतिज्ञानावरणपरिभोगान्तराययोरनुभागं देशघातिनं बध्नातीत्यर्थः । ततःपुनरपि स्थितिबन्धसहनेषु गतेषु सत्सु वीर्यान्तरायस्याऽनुभागं देशघातिनं बाध्नाति असे ढिगया'त्ति, क्षपकश्रेणिमुपशमश्रेणिवाऽनधिगताः सर्वे जन्तवः संसारे पूर्वोक्तानि दानान्तरायादीनि कर्माणि सर्वघातीनि बध्नन्ति तेषामनुभागं सर्वघातिनं बध्नन्तीत्यर्थः । मोहनीयस्य त्रयोदशप्रकृतीनां देशघातिकरणस्याकथनं तु षष्ठगुणस्थाने तासां देशघातित्वस्य बंध उहये च भावात् । बन्धमाश्रित्य पूर्वोक्तानां वीर्यान्तरायस्य च देशघातिरसभवनान्तरं सहस्रषु स्थितबन्धेषु गतेष्वन्तरकरणं कतु भारभते, तद्वक्तुकाम आह
संजमघाईणंतरमेत्थ उ पढमठिई य अन्नयरे । संजलणावेयाणं वेइज्जतीण कालसमा ॥१२॥
संयमघातिनामन्तरमत्र तु प्रथमस्थितिश्चान्यतरस्य ।
संज्वलनवेदाना वेद्यमानानां कालसमा ॥४२॥ इति पदसंस्कारः । "संजमघाईणं" ति, बन्धे वीर्यान्तरायस्य देशपात्यनुभागभवनाऽनान्तरं संख्येयेषु स्थितिबन्धेषु गतेपु मत्सु मंयमघातिनां कर्मणामनन्तानुबन्धिवर्जाना द्वादशानां कषायाणां नवनोकरायाणां च "अतरं" त्ति, अन्तरकरणं करोतीत्ये कविंशतिप्रकृतीनामन्तरकरणं कतु मुपक्रमतेऽनन्तानुबन्धिनां तु मर्वोपशमनात् सर्वक्षयाद्वा तदर्जनम् । तत्र चतुर्णा क्रोधादीनां संज्वलनानामन्यनमस्य यस्य संज्वलनस्योदयस्त्रयाणां च वेदानां पुरुषादीनामन्यतमस्य यस्य वेदस्योदयम्तयोर्वेदकपाययोः कर्मणोः प्रथमास्थितिः स्वोदयकालप्रमाणाऽन्तम हूतप्रमाणा भवतीत्यर्थः । यद्यपि संज्वलनकाधेनापशमश्रेणिं प्रतिपन्नम्य यावदप्रत्याख्यानप्रत्यख्यानक्रोधोपशमोन भवति, तावरज्वलख्येयसमयप्रबद्धानामुदोरणा भवति । इतः पूर्वमपकृष्टद्रव्यस्य पल्याऽसंख्यातभागखण्डितस्य बहभागद्रव्यमुपरितनस्थिती निक्षिप्य तदेकभागं पुनरसंख्यातलोकेन खण्डयित्वा तद्वहभागद्रव्य गुणश्रेण्यायामे निक्षिप्य तदेकमागमुदयावल्यां निक्षिपतीति समयप्रबद्धासंख्यातकभागमात्र मेवोदीरणाद्रव्यम् । इदानी पुनरसंख्यातलो मितं भागहारं त्यक्त्वा पल्यासंख्यातभागेन खण्डितकभागमुदयावल्यां निक्षिपतीत्यसं. ख्येयसमयप्रबद्ध मात्रमुदीरणाद्रव्यमित्यर्थः ॥२३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org