SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ 4 अंतरकरणम् ] चारित्रमोहनीयोपशमनाधिकारः [ १७३ नक्रोधस्योदयः, संज्वलनमानेनोपशमश्रेणिं प्रतिपन्नस्य यावदप्रत्यख्यान वत्याख्यानावरणमानोपशमो न भवति तावत्संज्वलनमानस्पोदयः, संज्वलनमायया चोपशमश्रेणि प्रतिपन्नस्य यावदप्रत्याख्यानप्रत्याख्यानावरणमायोपशमो न भवति तावत्सञ्ज्वलनमायाया उदयः, सज्ज्वलन लोभेनोपशमश्रेणिमधिगतस्य यावदप्रत्यारूपानप्रत्याख्यानावरणलोभोपशमो न भवति, तावद् बादरसज्ज्वलन लोभस्योदयो भवति, तथाप्युदयवतीनां क्रोधादीनां प्रकृतीनां प्रथमस्थितिरुदयकालत अवलियाऽधिका द्रष्टव्या, आवलिकाया अल्पकालत्वेन तदविवचितत्वात् पुरुषवेदस्य तु प्रथमस्थितिरुदयकालेन समाना भवति, न तु कषायत्रदावलिकयाऽधिका । अन्येषामुदयरहितनां चैकादशक पायाणामष्टानां च नोकषायाणां प्रथमस्थितिरावलिकामात्रा । तत्र चतुर्णां संज्वलनानां त्रयाणां च वेदानामुदयकालप्रमाणमिदम् - स्त्रीवेदनपुंसकवेदयोरुदयकालः सर्वस्तोकः, स्वस्थाने तु मिथस्तुल्यः, ततः पुरुषवेदस्य संख्यातमागाऽधिकः, ततोऽपि संज्वलनक्रोधस्य विशेषाऽधिकः, ततोऽपि सज्ज्वलनमानस्य विशेषाधिकः, ततोऽपि संज्वलनमायाया विशेषाऽधिकः, ततोऽपि संज्वलनलोभस्य विशेषाऽधिकः । उक्तं च कर्मप्रकृतिचूर्णो- “पुरिसवेयस्स दीहो वेयणाकालो, इथिवेनपुं सगवेयाणां वेगणाकालो दोण्ह वि तुल्लो सखेज भागहीणो, कोहस जलणाए सव्वथोवो, माणसं जलणाए विसेसाहियो, मायास जलणाए विसेसाहिओ. सतां लोभस जलणाए विसेसाहितो ।" इति किन्तु पञ्चसङ्ग्रहे नपुस्त्रीवेदकालतः पु वेदस्य कालः संख्यातगुण उक्तः, तथा च तद्ग्रन्थः थीअमोदकात सखेज्जगुणो उ पुरिसेवयस्स | तस्स वि विसेस अहिओ कोहे तत्तो वि जहकमसो || १ | इति । इत्थमुदयरहितानां प्रकृतीनां प्रथमस्थितिः मिथः सदृशा एकावलिकामात्रत्वात्, उदयवप्रकृतीनां तु मिथो विसदृशाः । न च वेद्यमानस्य कषायस्य वेदस्य च प्रथमस्थितिरन्तमुहूर्तप्रमाणा, अन्यासामनुदयवतीनां प्रकृतीनां त्वावलिकामात्रा, तर्हे प बताऽल्पबहुत्वं कथं संगच्छत इति वाच्यम्, नानाजीवाऽपेक्षया ऽल्पबहुत्वस्य विहितत्वात् । अयं भात्रः - कश्चित्पुरूषवे दे नोपशमंश्रेणिमारोहति, अन्यः स्त्रीवेदेन श्रेणि प्रतिपद्यते, इतरो नपुंसकवेदेन समारोहति । त्रयो जन्तवो युगपच्छ्रेणि प्रतिपद्यमाना अन्तरं कुर्वन्ति, तदा स्त्रीवेदेनोपशमश्रेणि प्रतिपद्यमानस्य कालमाश्रित्य स्त्रीवेदस्य यावती प्रथमस्थितिस्तावत्येव नपुंसक वेदेनोपशमश्रेणिं प्रतिपद्यमास्य नपुंसकवेदस्य भवति, ततः संख्यात भागाधिकप्रथमस्थितिः पुरुषवेदेनोपशमश्रेणि प्रतिपद्यमानस्य पुरुषवेदस्य भवति । एवमेको जन्तुः संज्वलनक्रोधेनोपशमश्रेणि प्रतिद्यते, अन्यः पुनः संज्वलनमानेन, इतरः संज्वलनमायया, कश्चिल्लोमेन । एषु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy