Book Title: Karmaprakrutigatmaupashamanakaranam
Author(s): Shivsharmsuri, Gunratnasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 235
________________ अन्तरकरणे दलनिक्षेपः ] चारित्रमोहनीयोपशमनाधिकारः [ १७७ . ननु प्रथमस्थितौ द्वितीयस्थिती चाऽन्तरकरणसत्कदलनिक्षेपः स्वस्थानाऽपेक्षयोक्तः । अन्तरकरणदलिकं तु परस्थानेऽपि प्रक्षिप्यते। तत्र कः क्रमो बोद्धव्यः?अतः परस्थानदलिकनिक्षेपोऽभिधीयते । (१) यामां प्रकृतीनां वन्ध उदयश्च भवति, तासां पतद्ग्रहरूपप्रकृतीनामनुत्कीर्यमाणायांप्रथमस्थिती द्वितीयस्थिती च पूर्वोक्तचतुर्विधप्रकृतीनामन्तरकरणासत्कदलिक प्रक्षिपति, यथा पुरुषवेदोदयेनाऽऽरूढः पुरूषवेदस्याऽनुत्कीर्यमाणार्या प्रथमस्थितौ द्वितीयस्थितौ च चारित्रमोहनीयस्य पुरुषवेदवर्जविंशतिप्रकृतीनामन्तरकरणमत्कालिक प्रक्षिपति । (२)यामा प्रकृतीनां बन्धो विद्यन उदयश्च न भवति, तासां पतद्ग्रहरूपप्रकृतीनामनुत्कीर्यमाणायां द्वितीयस्थितावेव तदितरप्रकुनीनामन्तरकरणसत्कदलिकं प्रक्षिपति यथा संज्वलनक्रोधोदयारूढः पतद्ग्रहरूपप्रकृतीनां मानादीनामनुत्कीर्यमाणायां द्वितीयस्थितावेव तदितरविंशतिप्रकृतीनामन्ताकरणसत्कालिकं प्रक्षिपति । (३)यासां प्रकृतीनां बन्धो नाऽस्ति किन्तूदयो विद्यते, तासां प्रकृतीनां प्रथमस्थितौ द्वितीयस्थितौ वा तदितरप्रकृतीनामन्तरकरणसत्कदलिकं न निक्षिपति, अबध्यमानत्वेन पतद्ग्रहत्वाऽभावात् । यथा स्त्रीवेदोदयारूढः स्त्रीवेदस्य प्रथमस्थितो द्वितीयस्थितो वा तदितरप्रकृतीनामन्तरकरणसत्कदलिकं न प्रक्षिपति । (४) यासा प्रकृतीनां बन्धो न भवति नाऽप्युदयस्तामामपि पूर्ववत्प्रथमस्थितौ द्वितीयस्थितौ वा वा तदितरप्रकृतीनामन्तरकरणमत्कदलिक न प्रक्षिपति, अबध्यमानत्वेन पतद्ग्रहत्वाऽभावाद । यथा पुरुषवेदोदयारूढः स्त्रीवेदस्य प्रथमस्थितौ द्वितीयस्थितौ तदितरप्रकृतीनामन्तरकरणसत्कदलिकं न प्रक्षिपति । उक्तं च कषायाप्राभृतची-"अतरं करेमाणस्स जे कम्मंसा बज्झन्ति वेदिज्नति तेसि कम्माणमंतरहिदिओ उकोरेतो तासिं हिदीणं पदेसग्गंबंधपयरोणं पढमहिदीए च देदि गिदि यहिदीए च देदि। जे कम्मंसाण गझंति ण वेदिजंतिते. सिमुक्कोरमाणं पदेसग्गं सत्थाणे ण देदि, बजझमाणीणं पथडोणमणकीरमाणीस हिदीसु देदि। जे कम्मंसा ण बज्ति वेदिजति च तेसिमुक्कोरमाणयं पदेसरगं अप्पणो पढमहिदिए च देदि। बज्झमाणोणं पयडीणमुक्कीरमाणीसु च हिदिसु देदि । जे कम्मंसा बज्झंति ण वेदिजति तेसिमुक्कोरमाणं पदेसग्गं बज्झमाणीणं पयहोणमणकोरमाणीसु हिदोसु देदि । " इति । "अन्नयरे"इत्यात्विादेकवचनं पुस्त्वनिर्देशश्च, ततोऽयमक्षरार्थ:-संज्वलनवेदानामन्यतमयोर्वेदमानयोः प्रकृत्योः प्रथमा स्थितिः कालसमा उदयकालसमाना । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332