________________
अन्तरकरणे दलनिक्षेपः ] चारित्रमोहनीयोपशमनाधिकारः
[ १७७ . ननु प्रथमस्थितौ द्वितीयस्थिती चाऽन्तरकरणसत्कदलनिक्षेपः स्वस्थानाऽपेक्षयोक्तः । अन्तरकरणदलिकं तु परस्थानेऽपि प्रक्षिप्यते। तत्र कः क्रमो बोद्धव्यः?अतः परस्थानदलिकनिक्षेपोऽभिधीयते ।
(१) यामां प्रकृतीनां वन्ध उदयश्च भवति, तासां पतद्ग्रहरूपप्रकृतीनामनुत्कीर्यमाणायांप्रथमस्थिती द्वितीयस्थिती च पूर्वोक्तचतुर्विधप्रकृतीनामन्तरकरणासत्कदलिक प्रक्षिपति, यथा पुरुषवेदोदयेनाऽऽरूढः पुरूषवेदस्याऽनुत्कीर्यमाणार्या प्रथमस्थितौ द्वितीयस्थितौ च चारित्रमोहनीयस्य पुरुषवेदवर्जविंशतिप्रकृतीनामन्तरकरणमत्कालिक प्रक्षिपति ।
(२)यामा प्रकृतीनां बन्धो विद्यन उदयश्च न भवति, तासां पतद्ग्रहरूपप्रकृतीनामनुत्कीर्यमाणायां द्वितीयस्थितावेव तदितरप्रकुनीनामन्तरकरणसत्कदलिकं प्रक्षिपति यथा संज्वलनक्रोधोदयारूढः पतद्ग्रहरूपप्रकृतीनां मानादीनामनुत्कीर्यमाणायां द्वितीयस्थितावेव तदितरविंशतिप्रकृतीनामन्ताकरणसत्कालिकं प्रक्षिपति ।
(३)यासां प्रकृतीनां बन्धो नाऽस्ति किन्तूदयो विद्यते, तासां प्रकृतीनां प्रथमस्थितौ द्वितीयस्थितौ वा तदितरप्रकृतीनामन्तरकरणसत्कदलिकं न निक्षिपति, अबध्यमानत्वेन पतद्ग्रहत्वाऽभावात् । यथा स्त्रीवेदोदयारूढः स्त्रीवेदस्य प्रथमस्थितो द्वितीयस्थितो वा तदितरप्रकृतीनामन्तरकरणसत्कदलिकं न प्रक्षिपति ।
(४) यासा प्रकृतीनां बन्धो न भवति नाऽप्युदयस्तामामपि पूर्ववत्प्रथमस्थितौ द्वितीयस्थितौ वा वा तदितरप्रकृतीनामन्तरकरणमत्कदलिक न प्रक्षिपति, अबध्यमानत्वेन पतद्ग्रहत्वाऽभावाद । यथा पुरुषवेदोदयारूढः स्त्रीवेदस्य प्रथमस्थितौ द्वितीयस्थितौ तदितरप्रकृतीनामन्तरकरणसत्कदलिकं न प्रक्षिपति । उक्तं च कषायाप्राभृतची-"अतरं करेमाणस्स जे कम्मंसा बज्झन्ति वेदिज्नति तेसि कम्माणमंतरहिदिओ उकोरेतो तासिं हिदीणं पदेसग्गंबंधपयरोणं पढमहिदीए च देदि गिदि यहिदीए च देदि। जे कम्मंसाण गझंति ण वेदिजंतिते. सिमुक्कोरमाणं पदेसग्गं सत्थाणे ण देदि, बजझमाणीणं पथडोणमणकीरमाणीस हिदीसु देदि। जे कम्मंसा ण बज्ति वेदिजति च तेसिमुक्कोरमाणयं पदेसरगं अप्पणो पढमहिदिए च देदि। बज्झमाणोणं पयडीणमुक्कीरमाणीसु च हिदिसु देदि । जे कम्मंसा बज्झंति ण वेदिजति तेसिमुक्कोरमाणं पदेसग्गं बज्झमाणीणं पयहोणमणकोरमाणीसु हिदोसु देदि । " इति ।
"अन्नयरे"इत्यात्विादेकवचनं पुस्त्वनिर्देशश्च, ततोऽयमक्षरार्थ:-संज्वलनवेदानामन्यतमयोर्वेदमानयोः प्रकृत्योः प्रथमा स्थितिः कालसमा उदयकालसमाना ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org