________________
[ ६५
उपशान्ताद्धाया प्रन्त उदय: ] अनिवृत्तिकरणाधिकारः
उपशान्ताद्धाया अन्ते विधिनाकर्षितस्य दनिकस्य । अध्यबसानुरूपस्योदयस्त्रयाणामेकतरस्य
॥२२॥ इति पदसंस्कारः "उपसंतडा" इत्यादी. उपशान्ताद्धाया औपशमिकसम्यक्त्वाऽद्धाया अन्ते किश्चिदधिकावलिकाशेषे वर्तमानो द्वितीयस्थितिगतस्य सम्यक्त्वादिपुञ्जत्रयस्य दलिकमध्यवसायविशेषेणाऽऽकृष्याऽन्तरकरणस्याऽन्ति माऽऽवलिकायां प्रक्षिपति, तत्र प्रक्षेपविधिश्वायम्- उपशान्ताद्धासत्कचरमाऽऽवलिकायाः प्रथमसमये प्रभूतं दलिकम् , ततो द्वितीयसमये स्तोकम् , ततस्तृतीये समये स्तोकमेवं तावद्वाच्यं यावदावलिकाचरमसमयः, तानि चेत्थं निक्षिप्यमाणानि दलिकानि गोपुच्छाकारं शेत्रमास्तृणन्ति । तत उपशान्ताद्धाया आवलिकामात्रे काले शेषे "विहिणा" इत्यादि विधिनाऽवतारितस्य गोपुच्छाकारेण स्थापितस्येति यावत् , सम्यक्त्वादिपुजत्रयस्यैकतरस्याऽध्यवसायाऽनुरूपस्य पुञ्जस्योदयो भवति । अयं भावः--उपशान्ताद्धायाः किश्चिदधिकाऽऽवलिकायां शेषायामपवर्तनया गोपुच्छाकारेणाऽऽवलिकायां सम्यक्त्वादिमोहनीयत्रयस्य दलानि स्थापयति । किश्चिदधिके काले गते सति यदोपशान्ताद्धायाः पर्यन्ताऽऽवलिका प्रविशति, तदा शुभपरिणामस्य जन्तोः सम्यक्त्वमोहनीयस्योदयो भवति । मध्यमपरिणामस्थजन्तोर्मिश्रमोहनीयस्योदयः, तथाऽशुभपरिणामस्य जन्तोमिथ्यात्वस्योदयो भवति ।
उक्तं च पञ्चसङ्ग्रहेऽपि
ॐ उवसंता अंते बिहए ओकड्डियस्स दलियस्स ।
__ अज्झवसाणविसेसा एक्कस्मुदओ भवे तिण्हं ॥१॥ पश्यन्तु पाठका यन्त्रकम्...५
___यस्य जन्तोमिथ्यात्वस्योदयो भवति, स मिथ्यात्वगुणस्थानकं प्राप्नोति । तत्र च अन्तमुहूर्ताचं नानाजीवाऽपेक्षया तीर्थकृत्कर्माऽऽहारकद्विकं विना सप्तदशाऽधिकशतप्रकृतीनां क्धकः सञ्जायते, द्वाविंशत्युत्तरशतोदययोग्यप्रकृतीनां मध्याद् मिश्रसम्यक्त्वाऽऽहारकद्विकतीर्थकृत्कर्मरूपपञ्चप्रकृतीस्त्यक्त्वा सप्तदशोत्तरशतप्रकृतिषु यथायोग्यप्रकृतीनां वेदको भवति, आहारकचतुष्कजिननामं विना चत्वारिंशदुत्तरशतसत्ताको भवति ।
यस्य जन्तोमिश्रस्योदयो भवति, स मिश्रगुणस्थानकं प्राप्नोति । तत्र स्थितो न परमवयोग्याऽऽयुर्वध्नाति, न च तत्र म्रियते । ततश्च्युत्वा मिथ्यादृष्टिः सन् यद्वा सम्यक्त्वमासाद्य सम्यग्दृष्टिः सन् समाप्त आयुष्के म्रियते, नानाजीवाऽपेक्षया मिश्रगुणस्थानकवर्ती तिर्यत्रिकस्त्यानचित्रिकदुर्भगदुःस्वराऽनादेयाऽनन्तानुबन्धिमध्यमसंस्थानचतुष्कमध्यमसंहननचतुष्कनीचैगोत्रोद्योताऽप्रशस्तखगतिस्त्रीवेदरूपपञ्चविंशतिप्रकृतीनां बन्धाऽपगमात् मनुष्यदेवायुराहारक
卐 उपशान्ताद्धाऽन्ते द्वितीयायाप्रपकषितस्य दलिकस्य।
प्रध्यवसायविशेषादेकस्योदयो भवेत् त्रयाणाम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org