SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ [ गाथा २१,२२,२३ द्विकजिननामरूपप्रकृतीनामबन्धात् सास्वादन गुणस्थाने बन्धविच्छेदयोग्य मिथ्यात्व नरकत्रिकै केन्द्रियादिजातिचतुष्कस्थावर चतुष्काऽऽतपहुण्डक सेवार्तनपुंसकवेदरूपषोडशप्रकृतीर्वर्जयित्वा शेषाणां चतुःसप्ततिप्रकृतीनां बन्धको भवति, वेदकः पुनरेकेन्द्रिय विकलेन्द्रियरूपजातिचतुष्काऽनस्तानुबन्धि चतुष्कस्थावररुपनवप्रकृतीनां विच्छेदात देवमनुष्यतिर्यगानुपूर्व्य नुदया भर कानुपूर्वीसूक्ष्मत्रिकाऽऽतपमिथ्यात्वोदयस्य सास्वादन गुणस्थानक एव व्यवच्छेदात् आहारकद्विकजिननामसम्यक्त्वमोहनीयमिश्र मोहनीयरूपपञ्चप्रकृतीनां मिथ्यात्वगुणस्थानकेऽनुदयानां मध्याद् मिश्रस्य चोदयमानत्वात् शतप्रकृतीनां भवति । तथा यद्यपि मिश्रदृष्टिजिंन नामवर्ज सप्तचत्वारिंशदधिकशतसत्ताको भवति तथापि प्रथमोपशमसम्यक्त्वाऽनन्तरं मिश्रदृष्टिराहारकचतुष्क जिननामं विना त्रिचत्वारिंशदधिकशतप्रकृतिसत्ताको भवति । ६६ ] उपशमनाकरणम् यस्य सम्यक्त्वमोहनीयस्योदयो भवति, स क्षायोपशमिकसम्यग्दृष्टिः सन् यदा चतुर्थ - गुणस्थानकं प्राप्नोति तदा तत्र च व्रतरहितस्सन् कालं गमयति । यद्यप्ययं जन्तुः सावद्यव्यापारं कुत्सितकर्मत्वेन जानीते, तथाऽप्यप्रत्याख्यानावरण लक्षण द्वितीयकषायोदय प्रतिबन्धकस्य सच्चाद् व्रतं न गृह्णाति, प्रतिबन्धकाऽभावस्य कार्यजनकत्वनियमात् । अचिरतोऽप्येवं सदेवगुरुसङ्घानां पूजाप्रणतिवात्सल्यादिरूपभक्ति शासनोन्नति च कर्तुं समुद्यतते । उक्तं चाऽन्यत्राऽपि - Jain Education International * जो अधिरओऽवि संघे भतिं तित्थुण्णइ सदा कुणइ । अविरयसम्मदिट्ठी पभावगो साम्रगो सो वि ॥ १ ॥ नानाजीवाऽपेक्षया चतुर्थगुणस्थानवर्तिनः क्षायोपशमिकसम्यग्दृष्टेमिश्रगुणस्थानके बध्यमानचतुःसप्ततिप्रकृतीनां तीर्थकृन्मनुष्यदेवायुरूपप्रकृतित्रयस्य च बन्धो भवति, तथा मिश्र वर्जयित्वा मित्रगुणस्थानकान्नवनवतिप्रकृतय आनुपूर्वी चतुष्कसम्यक्त्वरूप पञ्च प्रकृतयश्चेति चतुरधिकशतप्रकृतीनामुदयो भवति, अष्टचत्वारिंशदुत्तरशत प्रकृतीनां सत्ता भवति । सामान्यतश्चतुर्थगुणस्थानके बन्धे सत्तायां चोपयुक्तप्रकृतयो भवन्ति तथापि प्रथमसम्यक्त्वाऽनन्तरं क्षयोपशममम्यग्दृष्टेर्बन्धे जिननाम तथा सत्तायां जिनाहारक चतुष्कं न भवति । अथ सास्वादनस्य प्रतिपत्ति दर्शयितुकाम आह-सम्मत्तपदमलंभो सव्वोवसमा तहा विगिड्डो य छालिग सेसा परं यासाणं कोइ गच्छेज्जा ||२३|| , 5 योऽविरतोऽपि संघे भक्ति तीर्थोन्नति सदा करोति । प्रविरतसम्यग्दृष्टिः प्रभावक श्रावकः सोऽपि ॥५१॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy