________________
उपशान्ताद्धायां सास्वादनप्राप्तिः ]
अनिवृत्तिकरणाधिकारः
सम्यक्त्व प्रथमलाभः सर्वोपशमात् तथा विप्रकर्षश्च ।
षडावलिकाशेषायां परमासादनं कश्चिद् गच्छेत् || ||२३|| इति पदसंस्कार: प्रथमोपशमसम्यक्त्वलामो मिध्यात्वस्य सर्वोपशमनाद् भवति, नाऽन्यथा । तथा प्रथमोपशममभ्यक्त्वस्य कालः प्रथमस्थित्यपेक्षया विप्रकृष्टः, बृहत्तराऽन्तमुहूर्तप्रमाणः ।
अस्मिन् सम्यक्त्वे प्रतिपद्यमाने कविज्जन्तुः प्रथमसम्यक्त्वेन सह देशविरतिं सर्वविरतिं वा प्रतिपद्यते ÷ । उक्तं च शतकबृहच्चूर्णी
“उवसमसम्मदिट्ठी अन्तरकरणे ठिओ कोइ देसविरदं पि लभेह |
कोइ पमत्तापत्तभावं पि, सासायणो पुण न किंपि लभे इति ॥ १।" इति । तथैव पश्चसडग्रहेऽपि -
सम्मत्तेण समगं सव्वं देतं च कोइ पडिवज्जे ।" इति ।
ततो देववितिप्रमत्ताप्रमत्तसंयतेषु मिध्यात्वमुपशान्तं प्राप्यते ।
"छा लिगसेसा" इत्यादि, जघन्यत औपशमिकसम्यक्त्वकाले समयमात्रशेष उत्कपत आवलिका पट्कशेषे कश्चिज्जन्तुरनन्तानुबन्धिकषायोदयादासादनं सास्वादनत्वं प्रतिपद्यते, सास्वादन गुणस्थानकं प्राप्नोतीत्यर्थः ।
तथा चोक्तं गुणस्थानक्रमारोहे
"एकस्मिन्नुदिते मध्याच्छान्तानन्तानुबन्धीनाम् । आद्योपशमिकसम्यक्त्वशैलमौलेः परिच्युतः ॥१॥
समयादावलिषट्कं यावन्मिथ्यात्व भूतलम् / नासादयति जीवोऽयं तावत्सास्वादनो भवेत् ||२||" इति ।
[ ६७
इदं सास्वादन गुणस्थानकं सम्यक्त्वतः पततैव जन्तुना प्राप्यते, अतोऽस्य स्वामी भव्यजन्तुरेव | भव्येष्वप्यस्योत्कृष्टतः किञ्चिदुनपुद्गलावर्तार्द्धकालप्रमाणसंसारः स एव नाऽन्यः । उक्तं चाऽन्यत्र --
1
+ सिद्धान्तमते स्थितिसत्कर्मतः पल्योपमपृक्त्वे क्षपिते जन्तुर्देशविति सागरोपम पृथक्त्वे चक्षपिते सर्वविति प्रतिपद्यते, तथा च समरादित्यकथायां भणितम् .
सम्मत्तम्मि उद्धं पलियपुहुत्तेण सावगो होज्जा ।
चरणोवसम खयागं सागरसखन्तरा होन्ति ||१|| श्रावकप्रज्ञप्त्यामपि तथैवोक्तम् ।
उपशमसम्यग्दृष्टिरन्तरकरणे स्थितो कोऽपि देशविरतिमपि लभेत् । कोऽपि प्रमत्ताप्रमत्त मावमपि, सास्वादनं पुनः न कोपि लभेदिति ॥। १ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org