________________
उपशमनाकरणम
(गाथा-२३-२४ "तोमुत्तमित्तं पि फासियं हुज्ज जेहिं सम्मत्तं । तेसिं अवड्डपुग्गल परिअट्टो चेव संगारो ॥१॥" इति
अथ सास्वादनगुणस्थानकाऽन्तरं भण्यते - अन्तरं नाम विवक्षितगुणस्थानाऽवस्थितेः प्रच्युताना पुनस्तत्प्राप्तेर्व्यवधानम् । तच्च साम्वादनगुणस्थान कम्य जघन्यतः पल्योपमाऽसंख्येयभागप्रमाणम् । यतः करणत्रयपूर्वकमन्तरकरणं कृत्वोपशमिकसम्यक्षमासादयति, ततोऽनन्तानुबन्ध्युदयात् मास्वादन भावमासाद्य तत्काले व्यतीतेऽवश्यं मिथ्यात्वं गच्छति । तत्र पल्योपमाऽसंख्येयभागेन कालेन मिश्रसम्यक्त्वे उद्वल्य षड्विंशतिसत्कर्मा सन कश्चिज्जन्तुर्भूय औपशमिकसम्यक्त्वमासाद्य सास्वादनत्वं प्रतिपद्यते, अतो जघन्येन पल्योपमाऽसंख्येयभागप्रमाणमन्तरमुपपद्यते । उत्कृष्टमन्तरं च देशोनार्धपुद्गलपगवर्तमानम् । तथाहि--सम्यक्त्वतः परिभ्रष्टो जीव उत्कृष्टतः किश्चिनपुद्गलपरावाद्धां यावत्संसारपारावारमध्यमवगाह्य सम्यक्त्वं लभते, ततो देशोनार्धपुद्गलपरावर्तप्रमाणमुत्कृष्टाऽन्तरमटते । ___ यावदन्तरकरणे तिष्ठति तावदीपशमिकसम्यग्दृष्टिज्ञातव्यः ।
उक्तं च पञ्चसड प्रहे-"उवसंतदसणी सो अन्तरकरणे ठिओ जाव ।" इति । किन्त्वनन्तानुबन्भ्युदयादधः पतति, तदाऽन्तरकरणे स्थितोऽपि सम्यक्त्वम्याऽऽस्वादनमात्रं करोति । उक्तं च
"उवसमअडाइठिओ मिच्छमपत्तं तमेष गन्तुमणो ।
सम्मं आसायन्तो सासायणमो मुणेयत्वो ॥१।।" इति नानाजीवाऽपेक्षया सास्वादनगुणस्थानकवी एकोत्तरशतप्रकृतीनां बन्धक , यतो मिथ्यावनरकत्रिकेकेन्द्रियादिजातिचतुष्कस्थावरचतुष्काऽऽतपहुण्डसेवार्तनपुंसकवेदरूपषोडशप्रकृतीनबध्नाति, तामा मिथ्यात्वप्रत्ययत्वात् तथा चाऽऽहारकद्विकजिननामलक्षणत्रिप्रकृतीनामबन्धकस्तद्बन्धयोग्य गुणाऽभावात्। सूक्ष्मत्रिकाऽऽतपमिथ्यात्वरूपपञ्चानामुदयव्यवच्छेदाद् नरकानुपूर्व्यनुदयाच्चैकादशोत्तरशतप्रकृतीनां वेदको नरकानुपूर्व्यनुदय इदं कारणम् सास्वादनस्थो जीवो नरकं न याति,नानाजीवमाश्रित्यसास्वादनस्थस्तीर्थकृत्सत्ताऽसंभवेति सप्तचत्वारिंशदधिकशतसत्ताको भवति ।
अथ सम्यग्दृष्टेः स्वरूपमाविचिकीर्षु राहसम्मट्टिीजीवो उवट्ठ पवयणं तु सद्दहइ । सदहइ असब्भावं अजाणमाणो गुरुनियोगा ॥२४॥ सम्यग्दृष्टिर्जीव उपदिष्टं प्रवचनं तु बद्धत्ते । श्रद्धत्तेऽसद्भावमजानम् गुरुनियोगात् ॥२४॥ इति पदमस्कारः सम्यग्दृष्टिर्जन्तुगुरुभिरर्थतः परमगुरुभिस्तीर्थकरः सूत्रतो गणधरादिमिचोपदिष्टं प्रज्ञप्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org