________________
सम्यग्मिथ्यादृष्टेः स्वरूपम् ! अनिवृत्तिकरणाधिकारः
[ ६६ प्रवचनं नियमाच्छद्दधात्येव, तुशब्दोऽत्रैवकारार्थो भिन्नक्रमश्च । तेन यः पुनः सम्यग्दृष्टिरप्यमद्भावं न विद्यते सद्भावो जीवाजीवानामनुपहतं स्वरूपं यस्मिन् प्रवचने, तद् , असद्भृतमित्यर्थो मिथ्यात्वमदवापितधाप्रणीतमिति यावत् प्रवचनं श्रद्धन्ते, सोऽजानन् यथार्थज्ञानविकलः सन् । अत्राऽज्ञानं ज्ञानावरणकर्मविपाकोदयादुत्पन्न न सम्यक्त्वप्रतिवन्धकम् , यद्वा गुरोः सम्यग्ज्ञानरहितस्य जमाल्यादिप्रमुखस्य मिथ्यादृष्टेर्नियोगात् , नियोजनं नियोगः "भावाऽकत्रोः" (सिद्धहेम० ५ । ३ । ३८) । इत्यनेन भावे घञ् “आज्ञाशिष्टिनिरा. निम्यदेशो नियोगशासने' (अभिधान०) आज्ञापारतन्त्रयादिति यावत् , असद्भूतं प्रवचनं श्रद्दधाति, न स्वेच्छया । यद्यपि ज्ञानावरणोदयमात्रेण जनितं यदज्ञानं तेन शास्त्रादीना. मर्थः संशयात्मको भवति, यथा कोऽपि सम्मतितादीन ग्रन्थान पठात , तेषामर्थे कस्यचित् सशयो जायते, अनुक्तानामक्षराणामयमों जायते, तदितरो वा जायते, स संशयः, श्रद्धाभक्त्यादिजनितसंशयच सम्यक्त्वं प्रतिबद्धन शक्यते, यथा सौधर्मेन्द्रस्य मेरुगिरा अभिषेकाऽच. मर संशयो जातः, किं वालोऽयमेतेषां कलशानां जलं सोलुसमर्थो भविष्यत्युत न १ तादृशाः मंशयाः सम्यक्त्वं प्रतिबद्धन शक्नुवन्ति , किन्तु गुरुनियोगजनितं नानामताऽभ्युपगन्तुरज्ञानं मिथ्यात्वप्रदेशोदयमाहत्म्यात् सद्भुतप्रवचनार्थसंशयरूपः सम्यक्त्वप्रतिबन्धको भवितुमर्हति , नथाऽपि 'तमेव सच्चं' इति, उत्तेजकसत्वात् सम्यक्त्वं प्रतिवद्धनाऽलम् । उत्तेजकाऽभावविशिष्टप्रतिबन्धकः सम्यक्त्वं प्रतिबद्धसमर्थो भवतिनाऽन्यथा। तथाचाऽऽहुः उपाध्यायप्रवराः"गुरुनियोगजनितं तु मध्यस्थस्या विनेयस्य नानामतदर्शिनो मिथ्यात्वप्रदेशोदयमहिम्ना विप्रतिपत्त्युपनीतप्रवचनार्थसंशयरुपं सम्यक्त्वप्रतिबन्धाऽभिमुखमपि 'तमेव सच्च' इत्याद्यालम्बनरूपोत्तेजकप्रभावान्न सम्यक्त्वं प्रतिबडमलमित्यज्ञानाद् गुरुनियोगाद् पाऽसद्भतार्थश्रद्धानेऽपि भावतो जिनाज्ञाप्रामाण्याऽभ्युगन्तुन शभात्मपरिणामरूपसम्यक्त्वोधात इति भावनीयम् । एतेन यदुच्यते केनचित् परपक्षस्य निश्रितस्य सर्वथा सम्यक्त्वं न भवत्येवेति तदपारतं द्रष्टव्यम् । अनभिनिविष्टमिथ्यादृष्टिनिश्रयाऽपि तदुपनीताऽसद्भतार्थश्रडानस्याऽस्वारसिकत्वेन स्वारसिकजिनवधनश्रद्धानाऽविरोधित्वात् । अभिनिविष्टस्य तु स्वपक्षपतितस्य परपक्षपतितस्य वा मिथ्यादृष्टित्वानपायादलं प्रपञ्चेन" इति।
अथ मिथ्यादृष्टेः स्वरूपं व्याजिही राहमिच्छट्ठिी नियमा उवइट्ठ पवयणं न सद्दहइ । सदहइ यसब्भावं उवइटुं वा अणुवइट्ट ॥२५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org