Book Title: Karmaprakrutigatmaupashamanakaranam
Author(s): Shivsharmsuri, Gunratnasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 173
________________ अपकविवेचनम् ] यथाप्र०क० अपू० करणाधिकारः [ . ११५. "दंसणमोहेऽपि" इत्यादि, दर्शनमोहेऽपि मिथ्यात्वसम्यग्मिथ्यात्वसम्यक्त्वमोहनीयलक्षणेऽपि क्षपणा तथा यथा प्रागनन्तानुबन्धिना विसंयोजना प्रोक्ता, तथैवेत्यर्थः । सामान्येनाऽतिदिष्टे विशेष इहाऽभिधीयते । इह दर्शनत्रिक चिक्षिपयिषुः प्रथमं वेदकसम्यगदृष्टिरनन्तानुबन्धिचतुष्कं पूर्ववद् विनाशयति । ततोऽन्तमुहूर्ते गते कश्चिज्जन्तुदेशनविकक्षपणार्थ मुद्यतः सन्नन्तमुहूत यावदनन्तगुणवृद्धथा विशुद्धयां प्रवर्धमानः करणत्रयं कतु मारमते, न सर्वेऽनन्तानुबन्धिना विसंयोजकाः, यतः कतिचिज्जीवा अनन्तानुबन्धिचतुष्कं विसंयोज्य तत्रैव चतुर्थप्रभृतिगुणस्थानकेऽवतिष्ठन्ते, केचिद्मिश्रगुणस्थानकं प्राप्नोति, कियन्तश्चिज्जीवा मिथ्यात्वोदयाद् भूयोऽप्यनन्तानुबन्धिचतुष्कं बन्धद्वारेण प्राप्नुवन्ति तद्बीजम्य मिथ्यात्वस्याऽविनाशात् । केचिल्लब्धपराक्रमा अनन्तानुबन्धिचतुष्कं विसंयोज्याऽन्तमुहूर्तमवस्थाय दर्शनत्रिकं क्षपयितु. मारमन्ते, तत्र दर्शनत्रिकसपणार्थं कश्चिदन्तमुहूतं यावत्पूर्वभूमिकायामनन्तगुणवृद्धथा विशुद्धिमनुभवन् करणत्रयं कतु प्रवर्तते । तत्र प्रथमं यथाप्रवृत्तकरणम् , ततोऽपूर्वकरणम् , ततोऽनिवृत्तिकरणम् । तथाहि-यथाप्रवृत्तकरणे स्थितिघातं रसघातं गुणश्रेणिं गुणसंक्रमं च न करोति । केवलं पूर्वपूर्वत उत्तरोत्तराऽन्तमुहूर्ते पल्योपमसंख्येयभागेन हीनं हीनतरमायुवर्जकर्मणां स्थितिवन्धं करोति । तथा प्रतिसमयमनन्तगुणवृद्धया विशुद्धया प्रवर्धमानो भवति, अध्यवसायस्थानविशोधीत्यादिकं सर्व पूर्ववनिश्चेतव्यं । ततोऽपूर्वकरणं प्रविशति । तत्राऽपूर्वकरणस्य प्रथमसमये नानाजीवाऽपेक्षयकजीवतोऽपरजीवस्य स्थितिसत्त्वं संख्येयगुणं तुल्यं विशेषाऽधिकं वा भवति । विशेषाऽधिकं चाऽत्र द्विविधम्-(१) संख्यातभागाऽधिकम् , (२) असंख्यातमागाधिकं च । स्थितिसत्त्वतारतम्यादेकजीवस्य स्थितिखण्डतोऽपरस्य स्थितिखण्डं संख्येयगुणं विशेषाऽधिकं तुल्यं वा भवति । करणसत्कविशद्धौ स्थितिखण्डस्य प्रायशः स्थितिसत्वाऽनुसारित्वात् । उक्तं च कषायप्राभतचूर्णी-"अपुधकरणस्स पढ मसमए दोण्हं जीवाण डिदिसंतकम्मादो हिदिसंतकम्मं तुल्ल वा विसेसाहियं वा संखेज्जगणं वा। विदिखंडयादो वि द्विदिखंडयं दोण्हं जीवाणं तुम्लं वा विसेसाहियं वा संखेज्जगुणं वा" इति । भावना वित्थं कार्या-द्वौ क्षायोपशमिकसम्यग्दृष्टी जन्तू युगपदुपशमश्रेणि प्रतिपद्येते, ततश्च्युत्वा भूयः क्षायोपशमिकसम्यग्दृष्टी भूत्वा दर्शनत्रिकं क्षपयितुमुपक्रमेते, तह्य पूर्वकरणप्रथमसमये तयोः स्थितिसत्त्वं सदृशं भवति, कथमेतदवसीयत इति चेद् ! उच्यते, प्रथमत उपशमश्रेणिप्रतिपन्नानामनिवृशिकरणे प्रथमस्थितिखण्डेऽपगते सर्वेषां जीवानां स्थितिसत्त्वं समानं भवतीति नियमो वक्ष्यते, एवं स्थितिसत्त्वस्य समानत्वादुभयोः स्थितिखण्डमपि समानं भवति । अथ तयोर्दर्शनत्रिकक्षपणाऽपूर्वकरणे स्थितिसचं विशेषाऽधिकं स्थितिखण्डं च भाव्यते Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332