________________
अपकविवेचनम् ] यथाप्र०क० अपू० करणाधिकारः
[ . ११५. "दंसणमोहेऽपि" इत्यादि, दर्शनमोहेऽपि मिथ्यात्वसम्यग्मिथ्यात्वसम्यक्त्वमोहनीयलक्षणेऽपि क्षपणा तथा यथा प्रागनन्तानुबन्धिना विसंयोजना प्रोक्ता, तथैवेत्यर्थः । सामान्येनाऽतिदिष्टे विशेष इहाऽभिधीयते । इह दर्शनत्रिक चिक्षिपयिषुः प्रथमं वेदकसम्यगदृष्टिरनन्तानुबन्धिचतुष्कं पूर्ववद् विनाशयति । ततोऽन्तमुहूर्ते गते कश्चिज्जन्तुदेशनविकक्षपणार्थ मुद्यतः सन्नन्तमुहूत यावदनन्तगुणवृद्धथा विशुद्धयां प्रवर्धमानः करणत्रयं कतु मारमते, न सर्वेऽनन्तानुबन्धिना विसंयोजकाः, यतः कतिचिज्जीवा अनन्तानुबन्धिचतुष्कं विसंयोज्य तत्रैव चतुर्थप्रभृतिगुणस्थानकेऽवतिष्ठन्ते, केचिद्मिश्रगुणस्थानकं प्राप्नोति, कियन्तश्चिज्जीवा मिथ्यात्वोदयाद् भूयोऽप्यनन्तानुबन्धिचतुष्कं बन्धद्वारेण प्राप्नुवन्ति तद्बीजम्य मिथ्यात्वस्याऽविनाशात् । केचिल्लब्धपराक्रमा अनन्तानुबन्धिचतुष्कं विसंयोज्याऽन्तमुहूर्तमवस्थाय दर्शनत्रिकं क्षपयितु. मारमन्ते, तत्र दर्शनत्रिकसपणार्थं कश्चिदन्तमुहूतं यावत्पूर्वभूमिकायामनन्तगुणवृद्धथा विशुद्धिमनुभवन् करणत्रयं कतु प्रवर्तते । तत्र प्रथमं यथाप्रवृत्तकरणम् , ततोऽपूर्वकरणम् , ततोऽनिवृत्तिकरणम् । तथाहि-यथाप्रवृत्तकरणे स्थितिघातं रसघातं गुणश्रेणिं गुणसंक्रमं च न करोति । केवलं पूर्वपूर्वत उत्तरोत्तराऽन्तमुहूर्ते पल्योपमसंख्येयभागेन हीनं हीनतरमायुवर्जकर्मणां स्थितिवन्धं करोति । तथा प्रतिसमयमनन्तगुणवृद्धया विशुद्धया प्रवर्धमानो भवति, अध्यवसायस्थानविशोधीत्यादिकं सर्व पूर्ववनिश्चेतव्यं । ततोऽपूर्वकरणं प्रविशति । तत्राऽपूर्वकरणस्य प्रथमसमये नानाजीवाऽपेक्षयकजीवतोऽपरजीवस्य स्थितिसत्त्वं संख्येयगुणं तुल्यं विशेषाऽधिकं वा भवति । विशेषाऽधिकं चाऽत्र द्विविधम्-(१) संख्यातभागाऽधिकम् , (२) असंख्यातमागाधिकं च ।
स्थितिसत्त्वतारतम्यादेकजीवस्य स्थितिखण्डतोऽपरस्य स्थितिखण्डं संख्येयगुणं विशेषाऽधिकं तुल्यं वा भवति । करणसत्कविशद्धौ स्थितिखण्डस्य प्रायशः स्थितिसत्वाऽनुसारित्वात् । उक्तं च कषायप्राभतचूर्णी-"अपुधकरणस्स पढ मसमए दोण्हं जीवाण डिदिसंतकम्मादो हिदिसंतकम्मं तुल्ल वा विसेसाहियं वा संखेज्जगणं वा। विदिखंडयादो वि द्विदिखंडयं दोण्हं जीवाणं तुम्लं वा विसेसाहियं वा संखेज्जगुणं वा" इति । भावना वित्थं कार्या-द्वौ क्षायोपशमिकसम्यग्दृष्टी जन्तू युगपदुपशमश्रेणि प्रतिपद्येते, ततश्च्युत्वा भूयः क्षायोपशमिकसम्यग्दृष्टी भूत्वा दर्शनत्रिकं क्षपयितुमुपक्रमेते, तह्य पूर्वकरणप्रथमसमये तयोः स्थितिसत्त्वं सदृशं भवति, कथमेतदवसीयत इति चेद् ! उच्यते, प्रथमत उपशमश्रेणिप्रतिपन्नानामनिवृशिकरणे प्रथमस्थितिखण्डेऽपगते सर्वेषां जीवानां स्थितिसत्त्वं समानं भवतीति नियमो वक्ष्यते, एवं स्थितिसत्त्वस्य समानत्वादुभयोः स्थितिखण्डमपि समानं भवति ।
अथ तयोर्दर्शनत्रिकक्षपणाऽपूर्वकरणे स्थितिसचं विशेषाऽधिकं स्थितिखण्डं च भाव्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org