________________
॥ क्षायिकसम्यक्त्वप्रतिपत्तिः ॥
अनन्तानुबन्धिनां विसंयोजनां विस्तरतोऽभिधाप संप्रति क्षायिकसम्यक्त्वप्रतिपत्तिंप्रतिपिपादयिषुराह
दंसणमोहे वि तहा कयकरणद्धाइ पच्छिमे होइ ।
जिण कालगो मस्सो पट्टवगो वासुप्पिं ॥३२॥
दर्शन मोहेऽपि तथा कृतकरणाद्धायां पश्चिमे भवति । जिनकालको मनुष्यः प्रस्थापको वर्षाष्टकस्योपरि ||३२|| इति पदसंस्कारः ।
ननु कः क्षायिक सम्यक्त्व प्राप्तये प्रभवतीति चेद् ? उच्यते, इह दर्शनत्रिकस्य क्षपणाय 'पट्ठवगे' त्ति प्रस्थापकः, प्रस्थापयतीति प्रस्थापकः "णकतृची" सिद्धहेम (५ | ११४८) कर्तरि 'णक' प्रत्ययः, आरम्भक इत्यर्थः ' जिणकालगो" त्ति, जिनकालको - जिनानां तीर्थकृतां कालः जिनकालः; यस्मिन्काले जिना उत्पद्यन्ते, स जिनकाल इत्यर्थः, स चाऽवसर्पिण्यास्तृतीयारकपर्यन्तमागश्चतुर्थाश्कश्चोत्सर्पिण्याः पुनः प्रथमभागः, तत्र काले व उत्पद्यते स जिनकालको जिनकालसंभत्रीत्यर्थः, जिनकालमंभवी मनुष्योऽविग्तसम्यग्दृष्टिदेश विरत सर्व विरतेष्वन्यतमोऽष्टवर्षाणामुपरिवर्तमानो वज्रर्षभनाराचसंहननश्च भवति स क्षपयति । तथा चोक्तं श्री पश्च सङ्ग्रहमूलटीकग्राम - " जिणकालीअं त्ति, जिनविहरेणकालसंभवः" अष्टवर्षाणामुपरि वर्तमानो वज्रर्षभनाराचसंहननश्च भवति । इति ।
- इदमत्रावधेयम् - देवसंहृतो देवकुर्वादौ सुषमसुषमादिकालप्रतिभागे जिनका लोत्पन्नो दर्शनत्रिकं क्षपयति । कषायप्राभृतचूर्णो प्रस्थापकम्य शुभलेश्यात्रि केऽन्यतरा लेश्या प्रोक्ता तथा च तद्ग्रन्थः–“स्ववणाए पट्ठवगो जहण्णगो तेउलेस्साए " । कर्मप्रकृतिचूण तु कृतकरणवेदनाद्वायां लेश्यापरावृत्ति दर्शयद्भिः श्रीमच्चूर्णिकारैरिदमुक्तम् - "पुच्चं सुक्कलेसा आसि संपयं अन्नपरीए वि होज्जा" । अत्र यदि पूर्वशब्देनाऽव्यवहितपूर्व गृह्यंत, तर्ह्य निवृत्तिकरणाद्वायां शुक्ललेश्या संभवेत् ततोऽवांग पूर्वभूमिकायां यथाप्रवृत्तकाणादौ च प्रस्थापकस्य लेश्यात्रयमपि संभवेत् । यदि पुनः पूर्वशब्दस्य व्यवहितपूर्वं गृह्यंत, तर्हि यथाप्रवृत्तकरणतोऽवागपि प्रस्थापकस्य शुक्ललेश्यैव स्यात् । तत्त्वं त्वतिशयज्ञानिनो विदन्ति ।
टि०
जयधवलाकारास्तीर्थकर गणधरश्रुत केबलिनां पादमूले दर्शनत्रिकक्षपणायाः प्रस्थापको भवतीत्याहुः तथा च तद्ग्रन्थ: "कम्मभूमिजादो वि तित्थयर केवलिसुद केवलीणं पादमूले दसणमोहणीम खवेदुमाढवे णाण्णत्थ । "
Jain Education International
For Private & Personal Use Only
י
www.jainelibrary.org