SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ मध्यवसायस्थापनावर्णनम् ] अन्तानु-उपशमनाधिकारः [ ११३ प्रमाणाऽन्तर्मुहूतं यावदावलिकोपर्यु पारे वर्धते, उपरितना निषेकाः क्रमेणोदयावलिकायां प्रविशन्तीत्यर्थः । स्थिनिबन्धाद्धारूपाऽन्तमुहर्तकालेनाऽन्तरकरणं भवति, अन्तमुहर्तप्रमाणा स्थितिग्नन्तानुबन्धिदलिकाऽभाववती जायत इत्यर्थः। प्रथमस्थितिश्चावलिकाप्रमाणा भवति, अन्तरकरणे कृते मत्यनन्तर समयादनन्तानुबन्धिनामुपरितनलक्षणद्वितीयस्थितिगतं दलिकमुपशमयितुमारभते तथाऽऽवलिकां स्तिबुकसङ्क्रमेण मडक्रमयति । उपशमक्रमश्वाऽयम्-प्रथमसमये स्तोकमुपशमयति, ततो द्वितीयसमयेऽसंख्येयगुणम् । नतोऽपि तृतीयसमयेऽसंख्येयगुणम् , एवं यावदन्तमुहूर्तम् , एतावता च कालेन साकल्येनाऽनन्तानुवन्धिनः सर्वथोपशामता भवन्ति । नन्वन्तरकरणक्रियासमाप्तिकालेऽवशिष्यमाणाऽनन्तानुबन्धिन आवलिकाप्रमाणा प्रथमस्थितिर्भवति, उपशमना स्वन्तमुहूतं यावत् प्रवर्तते, तह निवृत्तिकरणं कदा पर्यवसितं भवतीति चेद् ? उच्यते, अनन्तानुबन्धिनामुपशमनक्रियायां पूर्णायामनिवृत्तिकरणं परिसमाप्तं भवतीति संभाव्यते । न च स्तिबुकसङ्क्रमेण प्रथमस्थित्यां क्रमश आवलिकायां सडवामितायामनन्तानुबन्धिप्रथमस्थित्यभावादन्तरकरणे कृते ऽनन्तरसमयादन्तमु हृतं यावदनन्तानुगन्धिनामुपशमना कथं भवेदिति वाच्यम् , प्रथमस्थित्यः भावेऽपि तदुपशमनाविरोधाभावात पुरुषवेदोदयारूढस्य नपुसकवेदोपशमनावद् । उपमिता नाम यथा रेणुनिकरः सलिलबिन्दुनिवहैरभिषिच्याऽभिषिच्य द्रघणादिभिनिष्कुट्टितो निस्पन्दो भवति, तथा कमरेणुनिकरोऽपि विशोधिसलिलप्रवाहेण परिषिच्य परिषिच्याऽनिवृत्ति करणरूपद्रुघणनिष्कुट्टितः सङ्क्रमणोदीरणानिद्धात्तनिकाचनाकरणानामयोग्यो भवति । इति भणिताऽनन्तानुबन्धिनामुपशमना । SWWW Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy