________________
११२ ]
[ गाथा ३१
तेषामनुभागं प्रति समयमनन्तगुणवृद्धयाचतुःस्थानकं बध्नाति, अशुभानां च प्रकृतीनां द्विस्थानकं प्रतेिसमयमनन्तगुणहीनं बध्नाति । स्थितिबन्धश्च पूर्वपूर्वत उत्तरोत्तरान्तमुहूर्त कालेन पल्योपममख्येयभागहीनो भवति, एवमन्तर्मुहूर्ते गते यथाप्रवृत्तकरणं करोति तत्स्वरूपं च पूर्ववज्ज्ञातव्यम् । तद्यथा - अनन्तगुणवृद्धया विशुद्धया प्रवर्धमानो भवति । अध्यवसायस्थानानि च नानाजीवापेसा प्रतिसमय मसंख्येयलोकाकाशप्रदेशप्रमाणानि षट्स्थानपतितानि भवन्ति । पूर्वपूर्वसमयतश्वोत्तरोत्तरसमये विशेषाऽधिकानि । एवं विशोध्यादिसर्व प्रथमसम्यक्त्वोपादवज्ज्ञेयम् । यथाप्रवृत्तकरणं समाप्याऽपूर्वकरणं प्रविशति । अपूर्वकरणं च प्रविशन पञ्चाऽपूर्वपदार्थाः प्रारभ्यन्ते तद्यथा स्थितिघातो रसघातो गुणश्रेणिगुणमङ्क्रमोऽभिनवस्थितिबन्धश्च । तत्र स्थितिघातादीनां स्वरूपं पूर्ववज्ज्ञेयम् । स्थितिघातसहस्र र पूर्वकरणस्य प्रथमसमये यत्स्थितिसत्कर्माऽऽसीत्तस्यैव चरमसमये संख्येयगुणहीनं जातम् | अनेक महस्रै रसघातैश्वाऽनुभागसच्चमनन्तगुणहीनं कृतम् |
उपशमनाकरणम्
P
तत्रगुणश्रेणिमन्तर्मुहूर्तप्रमाणानां स्थितिस्थानकानामुपरि याः स्थितयो वर्तन्ते, तन्मध्याद्दलिकं गृहीत्वाऽनन्तानुबन्ध्याद्यनुदयव-प्रकृतीनामुदयावलिकाया उपरितनीवन्तमुहूर्तप्रमाणासु स्थितिषु प्रतिसमयमसंख्येयगुणनया निक्षिपति, उदयवत्प्रकृतीनां चोदयसमयादारभ्यान्तमुहूर्तप्रमाणस्थितिषु निक्षेपः संभवति । तथा च दलिकग्रहणमपि पूर्वपूर्वत उत्तरोत्तरसमयेऽसंख्येयगुणं भवति, गुणश्रेणिनिक्षेपोऽपूर्व करणाऽनिवृत्तिकरणकालाभ्यां मनागतिरिक्तस्तथा करद्वयसमयेष्वनुभवतः क्रमशः क्षीणेषु समयेषु गुणश्रेणिदलिकनिक्षेपः शेषे शेषे भवति, न चोपयु परिवर्धत इत्यादिसर्वस्य प्रागभिहितात्वन्न पुनर्विस्तरतोऽभिधीयते ।
अपूर्वकरणस्य प्रथमसमयादारभ्य गुण सङ्क्रमेणाऽनन्तानुबन्धिनां दलानि परप्रकृतिषु सङ्क्रमयति । तत्राऽयं क्रमो वाच्यः, प्रथमसमये स्तोकं दलं संक्रमयति, द्वितीयसमयेऽसंख्येयगुणम् । एवं तावद्वक्तव्यम्, यावच्चरम् समयः । अपूर्वकरणस्य प्रथमसमयेऽभिनव स्थितिबन्धः प्रारभ्यते ! स च पूर्वपूर्वतः पल्योपमसंख्येयभागहीनो भवति । स्थितिघातरसघातौ च युगपदारभ्येते युगपदेव निष्ठां यातः । एवमेते पञ्च पदार्था अपूर्वकरणे प्रवर्तन्ते ।
अपूर्वकरणकालमतिक्रम्याऽनिवृत्तिकरणं करोति, तस्याऽध्यवसायविशोध्यादीनां सर्ववक्तव्यता प्रथमोपशमिकसम्यक्त्वोत्पादवज्ज्ञेया । अनिवृत्तिकरणस्य प्रथमसमयादारभ्य पूर्वोक्ताः पञ्च पदार्था अत्राऽपि प्रर्वतन्ते, तथाऽनिवृत्तिकरणस्य संख्येयेषु बहुभागेषु गतेष्वेकस्मिन संख्येयतमे भागेऽवतिष्ठमानेऽनन्तानुबन्धिनामधस्तादावलिकामात्रं मुक्त्वाऽन्तर्मुहूर्त मात्रमन्तरकरणं करोति, कतुमारभत इत्यर्थः । आवलिकाया उपरितनाऽन्तमुहूर्त प्रमाणस्थितेर्दलान्युत्कीर्य परप्रकृतिषु बध्यमानासु प्रक्षिपति । आवलिकायाः समये वेदिते स्थितिबन्धाद्धा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org