________________
११६ ]
उपशमनाकरणम्
[ गाथा ३२ उपशमश्रेणी जातसमानस्थितिसन्चकयोरेकतरो जन्तुः पुनरुपशमश्रेणिं प्रतिपद्यते, ततः पतित्वा क्षायोपशमिकसम्यग्दृष्टिस्सन् तत्रैव तिष्ठति, ततोऽपरो जन्तुन्तमुहूर्तात्परमुपशमश्रेणिमारुह्य ततश्च परिभ्रश्य क्षायोपशमिकदृष्टिर्भवति। ततः परमन्तमुहर्ते व्यतीने द्वावपि जन्तू युगपद् दर्शनत्रिकम्य क्षपणाय यतेते, तमु पूर्वकरणप्रथमसमये स्थितिसत्त्वं प्रथमतोऽपरस्य जन्तोविशेषाऽधिकं भवति, यतः श्रेणितः पतित्वा प्रथमपुरुषेणोपशमश्रेणेरनन्तरं द्वावन्नमुहूर्तकालौ व्यतिक्रान्ती द्वितीयेन वेक एवऽन्तमुहूर्तकाल इति द्वितीयपुरुषस्य स्थितिसत्वं प्रथमपुरुषस्य स्थितिसत्वतोऽन्तम हत कालेनाऽधिकं भवति, एवं यावदप्राप्तमिथ्यात्वयोस्तयोरुपशमश्रेणेरुत्कृष्टाऽन्तरं साधिकद्विषष्टिसागरोपममात्रं संभवति, तेनोत्कृष्टत एकजन्तुतोऽपरम्य द्वात्रिंशदधिकशतसागरोपमैरप्यधिक स्थितिसचं घटते । इदन्तु दिग्दर्शनमात्रम् , प्रकाराऽन्तरेणाऽपि निसर्गतो विशेषाऽधिकं ममानं वा स्थितिसत्त्वं प्राप्यत इति कृतं प्रपञ्चेन ।
दर्शनत्रिकक्षपणाऽपूर्वकरण एकजीवतोऽपरस्य संख्येयगुगं स्थितिसत्वं भवति, तद्भावना विन्ध कर्तव्या । अपूर्णकरणस्य प्रथमममय उपशमश्रेणितः पतित्वाऽऽगतस्य क्षायिकसम्यक्त्वाऽभिमुखस्य स्थितिसवतश्चारित्रमोहनीयस्याऽनुपशमकस्य क्षायिकसम्यक्त्वाऽभिमुखस्य स्थितिमा संख्येयगुणम् , चारित्रमोहनीयोपशमनायां प्रभृतस्य स्थितिसत्कर्मणो विशुद्धया नष्टत्वात् । उकर्क च कषायप्राभतो -दोण्हं जीवाणमेक्कोकसाए उससामेयूण वीणदंसणमोहणीयो जादो । एक्को कसाए अणुवसामेयूण खोणदंसणमोहणीयो जादो। जो अणवसमेयूण खीणदसणमोहणीओ जादो तस्स हिदिसंतकम्मं संग्वेज्जगुणं " इति । अत्र खीणदंमणमोहणीयो जादो, इत्यनेनाऽपूर्वकरणे वर्तमानः दर्शनत्रिकं क्षपन्नित्यर्थः कर्तव्यः, कथमेतदवसीयत इति चेद् ? उच्यते, "क्षी क्षये' ज्ञानेच्छाार्थत्रीच्छीलादिभ्यः (सिद्धहेम. ५।२।९३) इत्यनेन वर्तमाने 'क्त' प्रत्ययः क्षीणं झीयमाणं दर्शनमोहनीयं येनाऽपूर्वकरणस्थितेन क्षीणदशनमोहनीय इति व्युत्पत्त्याश्रयणात् ।
अथ प्रकाराऽन्तरेण विवक्षितजन्तुतोऽन्यस्य स्थितिसता संख्येयगुणं प्रदर्शयते, तुल्यस्थितिसत्कर्मणोः क्षायोपशमिकसम्यग्दृष्टयोर्जन्त्वोरेकः करणद्वयेन देशविरति सनविरतिं वा प्राप्नोति, स चाऽपूर्वाकरणे स्थितिसत्त्वां संख्येयगुणहीने कुयात , अन्यः पुनः क्षायोपशमिकसम्यग्दृष्टिजन्तुरविरत एव तिष्ठेत् । यद्यमी तौ युगपदर्शनत्रिक क्षपयितुमुपक्रमेते, तर्हि देशविरतस्य सर्गविरतस्य वा क्षायिकसम्यक्त्वाऽभिमुखस्य स्थितिसत्कर्मतोऽविरतस्य क्षायिकसम्यक्त्वा. ऽभिमुखस्य स्थितिसचं संख्येयगुणं भवेत् । एवमनेकधा मख्यातगुणं स्थितिसत्त्वं भावनीयम् । तथैव स्थितिखण्डमपि । अथ कषायप्राभूतचूर्णी-स्थानद्वयस्याऽपि जीवभेदेनाऽल्पबहुत्वं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org