________________
स्थितिसत्वम् ]
अपूर्वकरणाधिकरः निदिष्टम् । तथा च तद्ग्रन्थः-"(१) जो अपुव्वं दसणमोहणीयं खवेदूण पच्छा कसाए स्वसामेदि जो वा दसणमोहणीयमक्खेदूण कसाए उवसामेइ, तेसि दोण्ह पि जीवाणं कसायेसु उवर्मतेसु तुल्लकाले समधिच्छिदे तुल्लं ठिदिसंतकम्म (२) जी पुत्वं कसाए उवसामेयूण पच्छा सणमोहणीयं खवेह,अण्णो पुत्वं दंसणमोहणीयं ग्ववेयूण पच्छा कसाए उवसामेह, एदसि दोण्हं पि वीणदंसणमोहणीयाणं खवणकरणेसु उवासमकरणेसु च णि ट्ठिदेसु तुल्ले काले विदिक्कते जेण पच्छा दंसणमोहणीयं खविदं तस्स ठिदिसंतकम्म थोवं जेण पुव्व दसणमोहणीयं खवेयूण पच्छाकसाया उवासामिदा तस्स हिदिसंतकम्मं संखेज्जगुणं।" इति ।
अमरार्थस्त्वेवम्-(१) एको जीवो दर्शनत्रिकं झपयित्वोपशमश्रेणिमारोहति, अन्यश्च दर्शनत्रिकमक्षपयित्वोपशमश्रेणिं प्रतिपद्यते, उपयोर्जन्त्वोः कषायोपशान्तितस्तुल्ये काले गते स्थितसत्कर्म समानं भवति । (२) एको जीवः कपायोपशान्तलक्षणोपशमश्रेणितोऽवरुह्य दर्शनत्रिक क्षपायतुमारभते, इतरो जीवो दर्शनत्रिकं क्षपयित्वा कषायानुपशमयितुमारभते, द्वयोर्जीवयोः क्षपणक्रियाया उपशमनक्रियायाश्च परिसमाप्तितस्तुल्ये काले व्यतिक्रान्ते सति श्रेणितः पतित्वा दर्शन त्रिकक्षपणारम्भकस्य स्थितिसत्त्वमन्पम् , ततो दर्शनत्रिक परिक्षपश्य कषायाणामुपशमकस्य स्थितिसत्त्वं संख्येयगुणम् ।
अथाऽऽद्यस्थाने विशेषोऽभिधीयते-यथा चारित्रमोहनीयक्षपणाऽधिकारेऽनिवृत्तिकरणे प्रथः मखण्डे व्यतीते सर्वेषां जीवानां स्थितिसत्त्वं समानं तिष्ठति, तथैवोपशमश्रेणावप्यनिवृत्तिकरणे प्रथमे खण्डे व्यतीते सर्वेपा जीवानां स्थितिसचं तुल्यं भवेत , तेन दर्शनत्रिक परिक्षपय्योपशमश्रेणि प्रतिपद्यमानस्य स्थितिसत्कर्मतो दर्शनत्रिकमक्षपयित्वोपशमश्रेणिं प्रतिपद्यमानस्याऽनिवृत्तिकरणस्य प्रथमसमयपर्यन्तं स्थितिसत्वं प्रभृतं संभवति, पूर्वोक्तपुरूषस्य प्रभूतस्य स्थितिसत्त्वस्य दर्शनत्रिकसपणायां नाशो जातः, तथाऽपि चारित्रमोहनीयोपशमनासत्काऽनिवृत्तिकरणे प्रथमस्थितिचाते जिते स्थितिसत्वं समानं जायते । तेनोभयोर्जन्त्वोः कषायोपशान्तितस्तुल्ये काले गते स्थितिसत्वस्य सदृक्त्वोपलम्भे न कश्चिद् बाधः । ननूपशमश्रेणी सर्वेषां जीवानां स्थितिसचं समान कथं संभवति, संख्येयगुणत्वसंभवात् ? तथाहि-एकजन्तुः सकृदुपशमश्रेणिं प्रतिपद्य ततश्च च्युत्वा मिथ्यात्वमगत्वा भूयो द्वितीयवारमुपशमश्रेणिं प्रतिपद्यते, अन्यो जन्तुःपुनः प्रथमत उपशमश्रेणि प्रतिपद्यते, तत्र प्रथमपुरुषतो द्वितीयस्थ स्थितिसत्त्वं संख्येयगुणं प्राप्यते, यतः प्रथमवारं श्रेणि प्रतिपन्नेन प्रथमपुरुषेणाऽपूर्वकरणे स्वस्थितिसत्त्वं संख्यातगुणहीनं कृतं श्रेणितश्च्युत्वा मिथ्यामं न गतः, तेन बन्धद्वारेणाऽपि श्रेणिगतस्थितिसत्त्वतो नाऽभिवर्धितम् , अविरतसम्यग्दृष्टि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org