________________
उपशमनाकरणम्
११८ ]
[ गाथा ३२
गुणस्थानक उत्कृष्ट स्थितिबन्धस्याऽपि श्रेणिगतजघन्यस्थितिसत्त्वतः संख्यातगुणहीनत्वात् । स यदि द्वितीय वारमुपशमश्रेणि प्रतिपद्यते, तर्हि पुनः स्वस्थितिसत्त्वं संख्यातगुणहीनं कुर्यात्, अन्यो जन्तुः प्रथमवारमेव श्रेणिं प्रतिपद्यते, तेन पूर्वपुरुषतोऽस्य स्थितिसत्त्वं संख्यातगुणं संभवति, प्रागुपशमकाऽनिवृत्तिकरणे स्थितेरघातित्वादिति कृत्वा तुल्यं कथं घटत इति चेद् ? उच्यतेएतत्समीचीनम्, किन्त्वत्र तौ द्वौ जन्तू ग्राह्यौ, याभ्यां प्रथमवारमुपशमश्रेणिरारूढा, तेन तयोः समानास्थितिः संभवति, न संख्येयगुणा ।
संप्रति द्वितीयस्थाने विशेषोऽभिधीयते -एको जीवो दर्शनत्रिकमक्ष पयित्वोपशमश्रेणि समारोहति, अन्यः पुनर्दर्शनत्रिकं परिक्षपय्योपशमश्रेणिमारोहति तत्र दर्शनत्रिकमक्षपयित्वोपशमश्रेणि प्रतिपद्यमानस्य प्रभृतं भवति, द्वितीय पुरुषेण दर्शनत्रि कक्षपण [Sपूर्व करणे प्रभृतिस्थितेर्घातितत्वात् । अथोपशमश्रेण तेन क्रमेण प्रथमपुरुषः स्थिति घातयति, पेनाऽनिवृत्तिकरणे प्रथमस्थितिखण्डे, घातित उभयोः पुरुषयोः स्थितिमत्त्वं तुल्यं जायते श्रेण्यनिवृत्तिकरणे सर्वेषां जीवानां स्थितिसच्चसमानत्वसंभवात् । क्षायिकसम्यग्दृष्टिनोपशमश्रेणी स्तोका स्थितिर्धातिता, इतरेण पुनः प्रभृता घातिता इति फलितार्थः । ततः परं श्रेणितोऽवरुह्याऽक्षीणदर्शनमोहनीयो दर्शन त्रिकक्षपणायै पुनः करणत्रयं करोति, तत्र चाडपूर्णकरणे स्वस्थितिं संख्येयगुणहीनां करोति, तेनोपशमनाक्रियातोऽन्यस्य पुनः क्षपणाक्रियातस्तुल्ये विश्रान्तिकाले व्यतिक्रान्ते श्रेणितः पतित्वा दर्शनत्रिकं क्षपयतो जन्तोः स्थितिमुच्चनो दर्शनत्रिकं क्षपयित्वा कषायोपशमकस्य स्थितिसत्त्वं संख्येयगुणं भवति ।
अपूर्वकरणस्य प्रथममयतः प्रभृत्यायुर्वर्जशेषकर्मणां स्थितिघातरसघातगुणश्रेणि गुणसङ्क्रमस्थितिबन्धाः प्रारभ्यन्ते नवरं दर्शन त्रिकस्योद्वलनानुविद्धगुणसङ्क्रमः प्रवर्तते । अत्र पूर्वपूर्वतः स्थित्यपेक्षयोत्कीर्यमाणखण्डानां विशेषहीनत्वेनोद्वलना, दलिकाःपेक्षया सङ्क्रमस्याऽसंख्येयगुणकारत्वेन गुणसङ्क्रम इत्युद्वलनानुविद्धगुणसङ्क्रमः, ज्ञातव्यः । उवतं च पञ्चसङ्ग्रहे श्रीमन्मलयगिरिपादै: "नवरमपूर्वकरणस्य प्रथमसमय एव गुणसङ्क्रमेण मिथ्यात्व सम्यग्मिथ्यात्वयोर्दलिकं सम्यक्त्वे प्रक्षिपति, उबलनासङ्क्रमोऽपि तयोरेवमारभ्येते । तद्यथाप्रथमं स्थितिखण्ड वृहत्तरं घातयति, ततो द्वितीयं विशेषहीनम् एवं तावद्वक्तव्यं यावदपूर्वकरणचरमसमयः ।" इति । जघन्यस्थितिसत्कर्मणो जन्तोः स्थितिखण्डम पूर्णकरणस्य प्रथमसमये पल्योपमसंख्येयभागमात्रं भवति, तथोत्कृष्टस्थितिसत्कर्मणो जीवस्य सागरोपपृथक्त्वमात्रं मत्रति । पूर्वपूर्वोत्कीर्यमाणस्थितिखण्डत उत्तरोत्तरोत्कीर्यमाणस्थितिखण्डं विशेषहीनं तावद्वक्तव्यम्, यावदपूर्वकरणस्य चरमस्थितिखण्डम् । अत्र प्रथमस्थितिखण्डतः परम्परोप
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org