________________
स्थितिधाताादयः] अपूर्वकरणाधिभर:
[ ११९ निधया कानिचित्स्थितिखण्डानि संख्येय गुणहीनान्यपि भवन्ति, किन्न्वनन्तरोपनिधया पूर्वपूर्वत उत्तरोत्तरस्थितिखण्डानि विशेषहीनान्येव भवन्ति । न चाऽपूर्वकरणे प्रतिसमयं पूर्वपूर्वतो विशुद्धे. रनन्तगुणत्वेन स्थितिखण्डानां विशेषडीनत्वं कथमुच्यते, अधिकं वक्तव्यमिति वाच्यम् , स्थितिखण्डस्य सत्तागतस्थित्यनुसारित्वेन केवलं विशुद्धयनाश्रयणात् ।।
अत्रोद्वलनानुविद्धगुणसङ्क्रमस्य प्रवर्तमानत्वाद् घात्यमानखण्डानां मिथ्यात्वमोहनीयस्य दलिकं स्वस्थानेऽधी तथा मिश्रमोहनीये सम्यक्त्वे च निक्षिप्यते, मिश्रमोहनीयस्य च दलिका मधः स्वस्थाने तथा मम्यक्त्वमोहनीये च प्रक्षिप्यते, तथा व्याघातभाव्यपवर्तनया सम्यक्त्वमोहनीयस्य दलिकं स्वस्थानेऽधो प्रक्षिप्यते । स्थितिघातरसघातगुणश्रेणीनां स्वरूपं पूर्ववज्ज्ञेयम् । गुणश्रेणिनिक्षेपस्त्वपूर्वकरणाऽनिवृत्तिकरणाद्धाद्वयादधिको द्रष्टव्यः, स च गलिताऽवशेषमात्रः, उदयेन पूर्वपूर्वसमये क्षीणे हीनो हीनतरो भवति, एवं संख्यातसहस्रः स्थितिधातैरपूर्व करणं परिसमापयति । तथाऽपूर्वकरणस्य प्रथमसमये यस्थितिसत्कर्माऽऽसीत् , तस्यैव चरमसमये संख्येगुण हीनं भवति । उक्तं च पश्चसङ्ग्रहोपशमनाकरणस्य मूले
अपुवकरणसमगं गुण उव्वलणं करेह दोण्हं पि । तकरणाई जं तं हिइसतं संग्वभागन्ते ।। ३७ ।। " इति ।
तथैव मूलटोकायामप्युक्तम्-'तं च गुणसङक्रमपूर्वकरणेन "समं" ममकालमुद्वलनविधिना करोति, द्वयोरप्यनुदितपुञ्जयोमिथ्यात्वसम्यग्मिथ्यात्वाख्ययोस्तस्करणादौ यह स्थितिखण्ड (ततो द्वितीयं विशेषहीनं) एवं यावत्करणसमाप्तिरिति यत्करणादौ स्थितिसत्कर्म तस्य करणाऽन्ते संख्येयभागो भवतीति" गाथार्थः । इति ।
तथैव मलयगिरिटोकायामपि निगदितम्- 'अपूर्वकरणसमकमपूर्वकरणप्रथमसमयादारभ्येत्यर्थः, गुणसङ्कममुद्रलनं च द्वयोरनुदितयोमिथ्यात्वयोः करोति । तत्करणादावपूर्वकरणादौ यस्थितिसत्कर्माऽऽसीत् , तत्तस्यैव करणस्यान्ते चरमसमये संख्येयभागमात्रं भवति प्रथमसमयाऽपेक्षया संख्येयगुणहीनं भवतीश्यर्थः" इति ।
तथाऽपूर्वकरणस्य प्रथमसमये यः स्थितिबन्ध आसीत् , स करणाऽन्ते संख्येयगुणहीनो भवति । उक्तं च पञ्चसङ्ग्रहोपशमनाऽधिकारे-"एव हिबंधो विहु, पविसह अणि. यटिकरणसमयंमि।" इति । तथैव टीकायामपि "एवमनेनैव सत्कर्मन्यायेन स्थिति बन्धोऽपि योऽपूर्वकरणादासीत् , तस्मादन्तसमये संख्येयगुणहीनो भवति।" इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org