________________
उपशमनाकरणम्
[ गाथा- ३२
ततस्तृतीयमनिवृत्तिकरणं प्रविशति । अनिवृत्तिकरणस्य प्रथमसमयतो दर्शनत्रिक देशोपशमनानिकाचनानिद्धत्तिकरणरहितं भवति । अतः प्रभृति सत्कर्मणि दर्शनत्रिकस्य दलिकमदेशोपशमितमनिकाचिनमनिद्धत्तं भवति, तथा सत्कर्मणि विद्यमानेषु दलिकेषु देशोपशमनानिद्धत्तिनिकाचनाकरणानि न प्रवर्तन्ते ।
१२० ]
उक्तं च पञ्चसङग्रह उपशमनाऽधिकारे-"देव समणानिकायणनिहत्तर हियं 'च । होइ दिट्ठितिगं" तथैव तट्टीकायां "अनिवृत्तिकरणे प्रवर्त्तमान निदेशोपशमनानिकाचनानिधत्तिकरणरहितं वियुक्तं दर्शनत्रिकं भवति ।" इति । अनिवृत्ति करणेऽपि पूर्वस्थितिघातादयः पञ्च पदार्थाः प्रवर्तन्ते, तत्प्रथमसमयत एवाऽपूर्वस्थितिघातोऽपूर्व रसघातोऽपूर्वस्थितिबन्धश्च भूयो युगपदारभ्यन्ते ।
ॐ अनिवृत्तिकरणस्य प्रथमसमये दर्शनमोहनीयस्य स्थितिसत्त्वं सागरोपमलक्षपृथक्त्वप्रमाणं भवति, अन्तःमागरोपमकोटीप्रमाणं भवतीति यावत, शेषकर्मणां स्थितिसत्त्वं सागरोपमकोटीप्रमाणं भवतीति यावत्, शेषकर्मणां स्थितिमचं सागरोपमलक्ष कोटीपृथक्त्व प्रमाणं भवति, अन्तः सागरोपमकोटी कोटीप्रमाणं भवतीति यावत् उक्तं च कषायप्राभृतचूण-अणिय टिकरणम्स परमसमए दंसणमोहणीयस्स ठिदिसंतकम्मं सागरोवमसदसहस्स पुधत्तमंत कोडोए । सेसाणं कम्माण कोडी सदसरसपुधत्तमंतो कोडाकोडीए ।" इति । महस्रैः स्थितिघातैरनिवृत्तिकरणस्य संख्यातबहु भागेषु गतेष्वेकसंख्येय मागोऽवतिष्ठते तदा दर्शन मोहत्रिकम्य स्थितिमत्कर्माऽमंज्ञि पञ्चेन्द्रियस्थितिसत्कर्मसम नं भवति, ततः सहस्रैः स्थितिघातैर्घात्यमानं दर्शनत्रिकम्य स्थितिमत्कर्म चतुरिन्द्रियस्थितिमत्कर्मसदृक्षं भवति, ततोऽपि स्थितिखण्डसहस्रपृथक्त्वे गते सति दर्शनत्रिकस्य स्थितिमच्चं त्रीन्द्रियस्थितिमत्कर्म सदृग्भवति ।
अत पृथक्त्वशब्दो बहुत्वाची ज्ञातव्यः तेनाऽनेक महस्र ेषु स्थितिखण्डेषु गतेषु दर्शनत्रिकस्य स्थितिसत्कर्म त्रीन्द्रियस्थितिसत्कर्मसदृग्भवतीत्यर्थी लभ्यते, ततोऽप्यनेकसहस्रपु
फलब्धिसारेऽनिवृत्तिकरणम्थानां सर्वजीवानां दर्शन त्रिकस्य स्थितिसत्कर्म समानं भवतीत्युक्तम् । तथा च तद्ग्रन्थः " अत्र सर्वेषां जीवानां विशुद्धिपरिणामसादृश्येन जधन्योत्कृष्टविकल्पं विना स्थितिसत्वमेकादृशमेव भवति" श्रनिवृत्तिकरणे जीवानां स्थितिसत्त्वं प्रथम स्थितिखण्डे घातिते सां संभवति, कथमेतदवसीयत इति चेद् ? श्रणुत चारित्रमोहनीयक्षपणाऽधिकारे द्वितीयादिस्थितिसत्वं समानं दर्शितं तथैवाऽत्रापि संभवति । जयधबलाकारैरनिवृत्तिकरणे प्रथमखण्डस्य नानाजीवाऽपेक्षया वैषम्यं दर्शयित्वा द्वितीयादिखण्डानां समानत्वं दर्शितम् अक्षराणि त्वेवम्-"बिदिया दिखंडयाणि पुखं सब्वेसि जीवाणं सरसारिण चैव तत्थ विसरोसत्ते कारणाणुवलहीदो ।" तेन स्थितिसत्त्वस्याऽपि तदानीमेव सहक्षत्वं संभवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org