Book Title: Karmaprakrutigatmaupashamanakaranam
Author(s): Shivsharmsuri, Gunratnasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text ________________
उपशमन करणम्
[ गाथा-३२
एवं क्षायिकसम्यक्त्वप्रस्थापको मनुष्यो भवति । उक्तं च कर्मप्रकृतिचूर्णी- “जिणकाले वट्टमाणो मणुस्सो अट्ठवासाउओ उप्परं वट्टमाणो मणुस्सो पट्टेवेंतो, विगो चउसु वि गतीसु भवति।” इति । क्षायिक सम्यक्त्व प्राप्तेरनन्तरं बद्धवैमानिकसुरायुष्केषु जन्तुषु कचिल्लब्ध पराक्रम उपशमश्र ेणिमपि समारोहति नाऽन्यगतिबद्धायुष्कः, अबद्धायुष्कस्तु क्षपकश्रेणिमारभते, उक्तं च पञ्चसङ्ग्रह उपशमनाऽधिकारेकयकरणो तक्काले कालपि करेई चउसु वि गईसु । वेइयसेसो सेठी अण्णयरं वा समारुहइ | ४६ ।। इति ।
१४२
तथैव चोक्तमुपाध्यायप्रवरै: - " तत्र यो वैमानिके ध्वेव बडायुष्कः क्षीणसप्तकः स उपशमश्रेणिमारोहति, अवडायुष्कस्तु क्षाकश्रेणिम्, अन्यगतिवडा युष्कस्तु न कामपि श्रेणिमारभते श्रेणिकादिवदिति ज्ञयम् इति ।
नन्वबद्धायुष्कः कश्चिन्मनुष्यः साम्प्रतभवे तीर्थकुन्नाम कर्मनिकाच्याऽऽयुश्चाऽबद्ध्वा क्षायिक सम्यक्त्वमुत्पादयेत्, तहि स क्षपकश्रेणिमारोहेत् ? उत न ? इति चेद् ! उच्यते, तद्भवे निकाचितजिननामकर्माऽबद्धायुष्कः क्षायिकसम्यक्त्व प्राप्तेरनन्तरं तद्भवे क्षपकश्रेणिनाऽऽरोहति । उक्तं च कर्मप्रकृतिचूण- "अहन बडाउओ तो खवगसेढिमेव पडिवज्जति, जति तित्थयर संतकं मिगो ।”
अथ कषायप्राभृतचूर्णिकारमतेन कृतकृत्यवेदको विवर्णयते कृतं निष्पादितं कार्य स्थिति घात्यादिलचणं येन, स कृतकृत्यः, तस्य हि स्थितिघातादयो न भवन्ति । 5 कृतकृत्ये जाते तत्प्रथमसमयात्प्रभृत्यन्तमुहूर्त यावद् म्रियेत, तर्हि नियमतः सुरगतावुत्पद्यते । शेषगतिपूत्पद्यमानः
टिप्पणि० कृतकृताद्धायां वर्तमानः कश्चित्कालमपि कृत्वा चतसृणां गतीनामन्यतमायां गतावुत्पद्यते, लब्धिसारे कृत्कृत्याद्धायाश्चत्वारो विभागाः कृताः, यदि प्रथमविभागे कालं करोति तहि देवगतावेवोत्पद्यते । द्वितीयविभागे कालं करोति तर्हि देवगतो मनुष्यगतौ वोत्पद्यते, तृतीयविभागे म्रियते, तहि देवनर तिर्यक्ष्वन्यत्मायां गतावुपजायते, चतुर्थविभागे कालं कृत्वा देवनरतिर्यग्नरकेष्वन्यतमायां गतावुत्पद्यते । इति लब्धिसारकाराऽऽह तट्टीका - तस्मिन्नेव कृतकृत्यवे दकसम्यक्स्वकाले चतुर्भागी कृते प्रथमसमयादारभ्याऽन्मुहूर्त मात्रे प्रथमे चतुर्थभागे मृतो देवेष्वेवोत्पद्यते, नाऽन्यगतिषु तत्काल इतरगतित्रयगमनकारण संक्लेश (रिमाणामाभावात्तदनन्तरं द्वितीयचतुर्थम गेऽन्तर्मुहूर्तमात्रे मृतो देवमनुष्यगन्योरेबोत्पद्यते । नाऽन्यगतिद्वये, तत्काले तद्गतिद्वयगमननिबन्ध न संक्लेश परिणामऽनुपपत्ते । तदनन्तरं तृतीये चतुर्थभगेऽन्तर्मुहूर्त मात्रै मृतो देवमनुष्यतिर्यगगतिष्वेवोत्पद्यते, न नरकगतो तत्काले नरकगतिगमन हेतुसंक्लेशपरिणामास भवात् । तदनन्तरं चरमचतुर्थभागे मृतः कृतकृत्यवेदकसम्यग्दृष्टि चतसृष्वपि देवमनुतिथेग्नरकगतिषूत्पद्यते, तत्काले त दूतिगमननिबन्धन संक्लेश परिणामोपलम्भात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332