Book Title: Karmaprakrutigatmaupashamanakaranam
Author(s): Shivsharmsuri, Gunratnasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 214
________________ १५६ ] उपशमनाकरणम [ गाथा ३३ णां स्थिति मुक्त्वोपरितनाऽन्तर्मुहूर्तप्रमाणस्थितिं तदलिकाऽभाववतीं करोति । एवमन्यत्राऽप्यन्तरकरणाऽवसर उदयवत्प्रकृतीनामन्तमुहूर्तप्रमाणा प्रथमस्थितिग्नुदयवतीनां च प्रकृतीनांचलनावलिका प्रथमस्थितिर्ज्ञातव्या । अन्तरकरणाऽऽयामः-अपूर्वकरणप्रथमसमयाद् गुणश्रेणिनिक्षेपोऽपूर्व करणाऽनिवृत्तिकरणद्वयात किश्चिदधिके काले भवति स्म,अत्राऽनिवृत्तिकरणस्योपरितननिक्षेपो गुणश्रेणिशीर्षमुच्यते । ॐ गुणश्रेणिशीर्ष तथा तत: संख्यातगुणा या तदुपरितनस्थितिः सासर्वाऽप्यन्तरकरणे भवति, तावन्त्यः स्थितयः सम्यक्त्वस्य दलिकाऽभाववत्यः क्रियन्त इत्यर्थः। मिथ्यात्वमिश्रयोरुदयाऽऽवलिको. परितनसम्पूर्णगुणश्रेणिस्तथा ततः संख्यातगुणास्तदुपरितनस्थितयोऽन्तरकरणे भवन्ति, तावन्त्यः स्थितया दलिकाऽभाववत्यः क्रियन्त इति यावदन्तरकरणदलप्रक्षेपविधिः-*दर्शनत्रिकस्याऽन्तरकरणत उत्कीर्यमाणानि दलानि सम्यक्त्वमोहनीस्य प्रथमस्थिती प्रक्षिपति । न चात्र मिथ्यात्व. मिश्रयोः प्रथमस्थितावन्तकरणत उत्कीर्यमाणदलिकं कथं न प्रक्षिप्यत इति वाच्यम् , उदयावलिकायां दलिकनिक्षेपस्य निषिद्धत्वेनोदयरहितयोस्तयोर्दलिकस्य सम्यक्त्वमोहनीयस्य प्रथमस्थिती प्रक्षेपात् । ननूकीर्यमाणदलिकानि मिथ्यात्वमिश्रयोर्द्वितीयस्थितो कुतो न प्रक्षिप्यन्ते ?इति चेद्, उच्यते-बध्यमानप्रकृतेरेव दलानि द्वितीयस्थितावपि प्रक्षिप्यन्ते, अत्र तु दर्शनत्रिकस्य बध्यमानस्वाऽभावेन द्वितीयस्थितौ तदलिकनिक्षेपाभावः सिद्धः । एवं सम्यक्त्वमोहनीयस्याऽप्यन्तरकरणत उत्कीर्यमाणदलं द्वितीयस्थितौ न प्रक्षिपतीनि संभाव्यते । 5 उक्तं च दशाऽधिकद्विशततमगाथायाम-सम्यक् वेप्रकृतेर्गुणणिशीर्ष ततः संख्यानगुणितानुपरितनस्थिति निषेकांश्च गृहीत्वान्तरं करोति, मिथ्यात्वमिश्रयो: गलितावशेषगुणश्रेण्यायाम सर्वम्, तत: संख्यातगुणितानुपरितनस्थितिनिषेकांश्च गृहीत्वान्तरं करोतीत्यर्थ:। * उक्तं च लब्धिसारे "वर्शनमोहत्रयस्याऽन्तरे उत्कीर्णद्रव्य मुदयवत्याः सम्यक वप्रकृते: प्रथमस्थिता. वेव निक्षिपति, न द्वितीय स्थिती यत्र नूतनबन्धाऽस्ति तत्रोत्कृष्य द्वितीयस्थितावपि निक्षिपति । अत्र. पुनरप्रमत्तगणस्थाने दर्शनमोहस्य बन्धाऽभावात द्वितीयस्थितौ न निक्षिपतीत्यर्थः" (लब्धि २११) । द्वितोयस्थितित उत्कीयमाणदलिकानि तथोदयावलिकावर्जप्रथमस्थितित उत्कीर्यपाणलिकानां निक्षेप विधिः विशेषतः लब्धिसार उक्तः तद्यथा"गुणश्रेणिनिजरार्थमुदयावलिबाह्यप्रथमसमयादारभ्य सर्वनामकृष्टद्रव्यं पल्याऽसंख्यातभागेन खण्ड. यित्वा बहुभागमन्तरऽऽयाम मुक्त्वा स्वस्वोपरितनद्वितीयस्थित निक्षिप्य शेषेकभागं फ्ल्याऽसंख्यातकभ गेन खण्डयित्वा बहभागं सम्यक्त्वप्रकतिप्रथमस्थितौ गुणण्याय मे निक्षिप्य तदेकमानमुदयावल्यां निक्षिपति । एवमन्तरस्य द्वितीयादिफालिद्रव्यं दर्शनमोहसम्बन्धि प्रतिसमयमसंख्यात गुणितक्रमण गृहोत्वा सम्यक्त्वप्रकृतिप्रथम स्थितावेव निक्षिपति। अंते (तर) उपरि चाऽपकृष्टद्रव्यमपि प्रतिसमयमसंख्यातगुणितक्रमेण गृहीत्वा सम्यक्त्वप्रकृतिप्रथमस्थिता अन्तरस्योपरि स्वस्वद्वितीयस्थिती चाऽग्रे. ऽतिस्थपनावलि मुक्त्वा निक्षिपति ।" इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332