________________
१५६ ] उपशमनाकरणम
[ गाथा ३३ णां स्थिति मुक्त्वोपरितनाऽन्तर्मुहूर्तप्रमाणस्थितिं तदलिकाऽभाववतीं करोति । एवमन्यत्राऽप्यन्तरकरणाऽवसर उदयवत्प्रकृतीनामन्तमुहूर्तप्रमाणा प्रथमस्थितिग्नुदयवतीनां च प्रकृतीनांचलनावलिका प्रथमस्थितिर्ज्ञातव्या ।
अन्तरकरणाऽऽयामः-अपूर्वकरणप्रथमसमयाद् गुणश्रेणिनिक्षेपोऽपूर्व करणाऽनिवृत्तिकरणद्वयात किश्चिदधिके काले भवति स्म,अत्राऽनिवृत्तिकरणस्योपरितननिक्षेपो गुणश्रेणिशीर्षमुच्यते । ॐ गुणश्रेणिशीर्ष तथा तत: संख्यातगुणा या तदुपरितनस्थितिः सासर्वाऽप्यन्तरकरणे भवति, तावन्त्यः स्थितयः सम्यक्त्वस्य दलिकाऽभाववत्यः क्रियन्त इत्यर्थः। मिथ्यात्वमिश्रयोरुदयाऽऽवलिको. परितनसम्पूर्णगुणश्रेणिस्तथा ततः संख्यातगुणास्तदुपरितनस्थितयोऽन्तरकरणे भवन्ति, तावन्त्यः स्थितया दलिकाऽभाववत्यः क्रियन्त इति यावदन्तरकरणदलप्रक्षेपविधिः-*दर्शनत्रिकस्याऽन्तरकरणत उत्कीर्यमाणानि दलानि सम्यक्त्वमोहनीस्य प्रथमस्थिती प्रक्षिपति । न चात्र मिथ्यात्व. मिश्रयोः प्रथमस्थितावन्तकरणत उत्कीर्यमाणदलिकं कथं न प्रक्षिप्यत इति वाच्यम् , उदयावलिकायां दलिकनिक्षेपस्य निषिद्धत्वेनोदयरहितयोस्तयोर्दलिकस्य सम्यक्त्वमोहनीयस्य प्रथमस्थिती प्रक्षेपात् । ननूकीर्यमाणदलिकानि मिथ्यात्वमिश्रयोर्द्वितीयस्थितो कुतो न प्रक्षिप्यन्ते ?इति चेद्, उच्यते-बध्यमानप्रकृतेरेव दलानि द्वितीयस्थितावपि प्रक्षिप्यन्ते, अत्र तु दर्शनत्रिकस्य बध्यमानस्वाऽभावेन द्वितीयस्थितौ तदलिकनिक्षेपाभावः सिद्धः । एवं सम्यक्त्वमोहनीयस्याऽप्यन्तरकरणत उत्कीर्यमाणदलं द्वितीयस्थितौ न प्रक्षिपतीनि संभाव्यते । 5 उक्तं च दशाऽधिकद्विशततमगाथायाम-सम्यक् वेप्रकृतेर्गुणणिशीर्ष ततः संख्यानगुणितानुपरितनस्थिति निषेकांश्च गृहीत्वान्तरं करोति, मिथ्यात्वमिश्रयो: गलितावशेषगुणश्रेण्यायाम सर्वम्, तत: संख्यातगुणितानुपरितनस्थितिनिषेकांश्च गृहीत्वान्तरं करोतीत्यर्थ:। * उक्तं च लब्धिसारे "वर्शनमोहत्रयस्याऽन्तरे उत्कीर्णद्रव्य मुदयवत्याः सम्यक वप्रकृते: प्रथमस्थिता. वेव निक्षिपति, न द्वितीय स्थिती यत्र नूतनबन्धाऽस्ति तत्रोत्कृष्य द्वितीयस्थितावपि निक्षिपति । अत्र. पुनरप्रमत्तगणस्थाने दर्शनमोहस्य बन्धाऽभावात द्वितीयस्थितौ न निक्षिपतीत्यर्थः" (लब्धि २११) । द्वितोयस्थितित उत्कीयमाणदलिकानि तथोदयावलिकावर्जप्रथमस्थितित उत्कीर्यपाणलिकानां निक्षेप विधिः विशेषतः लब्धिसार उक्तः तद्यथा"गुणश्रेणिनिजरार्थमुदयावलिबाह्यप्रथमसमयादारभ्य सर्वनामकृष्टद्रव्यं पल्याऽसंख्यातभागेन खण्ड. यित्वा बहुभागमन्तरऽऽयाम मुक्त्वा स्वस्वोपरितनद्वितीयस्थित निक्षिप्य शेषेकभागं फ्ल्याऽसंख्यातकभ गेन खण्डयित्वा बहभागं सम्यक्त्वप्रकतिप्रथमस्थितौ गुणण्याय मे निक्षिप्य तदेकमानमुदयावल्यां निक्षिपति । एवमन्तरस्य द्वितीयादिफालिद्रव्यं दर्शनमोहसम्बन्धि प्रतिसमयमसंख्यात गुणितक्रमण गृहोत्वा सम्यक्त्वप्रकृतिप्रथम स्थितावेव निक्षिपति। अंते (तर) उपरि चाऽपकृष्टद्रव्यमपि प्रतिसमयमसंख्यातगुणितक्रमेण गृहीत्वा सम्यक्त्वप्रकृतिप्रथमस्थिता अन्तरस्योपरि स्वस्वद्वितीयस्थिती चाऽग्रे. ऽतिस्थपनावलि मुक्त्वा निक्षिपति ।" इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org