________________
अंतरकरणप्ररूपरणा ] दर्शनमोहत्रिकोपशमनाधिकारः
[ १५५ अंतरं करेदि"इति। तत्र सम्यक्त्वमोहनीयस्याऽन्तमुहूर्तप्रमाणां प्रथमस्थितिं 'अणुदयाण' इति। अनुदितयोमिथ्यात्वमिश्रयोरावलिकामात्रां प्रथमस्थितिं कृत्वाऽन्तमुहूर्तेन पूर्ववदेकस्थितिबन्धाद्धाप्रम.णेन कालेनाऽन्तरकरणं विधाय दर्शनत्रिकमुपशमयितुमारभते । दर्शनत्रयस्य द्वितीयस्थितेः प्रथमः निषेकाः समानाः तथाऽन्तकरणस्याऽधस्तनप्रथमस्थितिसत्कचरमनिषका विषमा इति कृत्वाऽन्तरकणमधस्ताद् विपतमुपरि च सदृशम् ।
अत्र मिथ्यात्वमिश्रपुञ्जयोः प्रथम स्थतिरावलिकाप्रमाणा मुच्यते, सा चाऽन्तरकरणक्रियाकाले चलनाऽऽत्रलिका संभाव्यते । किमुक्तं भवति ? उच्यते-अन्तरकरणक्रियाकालस्य प्रथमसमये मिश्रमोहनीयस्य मिथ्यात्वमोहनीयस्य चोदयाऽऽवलिकाया उपरितनप्रथमनिषेकादारभ्याऽऽद्वितीयस्थितिसत्कप्रथमनिषेकपर्यन्ते विद्यमाना ये निषेकाः, तेभ्यो दलिकान्युत्कीर्यन्ते । न चाऽन्तरकरण क्रियाकाले समाप्त एक द्वितीयस्थितिर्ववतुं शक्यते, नार्वागिति वाच्यम्, भाविनिभूतवदुपचार इतिन्यायेनाऽन्तकरणक्रियायाः प्रथमममयात्प्रभृत्यपि द्वितीयस्थितित्वेन व्यपदेशात अन्तरकरण क्रियाया द्वितीयसमयेऽपि पूर्ववदावलिका वर्जयित्वोपरितनस्थितिस्थानकेभ्यो दलिकान्युत्किरति (किन्तु पूर्वसमययुत्कीय माणाऽन्तकरणगतस्थितितः समयेन न्यूना हीदानीमुत्कीर्यमाणाऽन्तरकरणगतस्थितिर्भवति, उदयेन प्राक्तनसमये वेदिते उपरितनसमयस्योदयावलिकायां प्रविष्टत्वात् ) एवमन्नमुहूत यावदुदयसमयेषु क्षीणेष्वावलिका प्रतिसमयमुपयुपरि वर्धते, अन्तरकरणक्रियाया अन्तमुहूतसत्कचरम समये मिथ्यात्वमिश्रयोर वलिकावोंपरितन्य प्राप्तद्वितीयस्थितिसत्कप्रथमनिषेकाऽन्तमुहूर्तप्रमाणास्थितिर्दलिकाभाववती क्रियते । अत्र चरमसमय एव सर्वथा दलिकाऽभाववती क्रियते, तत्प्राक्तनेषु समयेषु तु सर्वथादलिकाऽभाववती न क्रियत, अपितु प्रतिसमयं कानिचिद् कानिचिद् दलिकान्यपनयति । इत्थं मिथ्यात्वमिश्रयोरन्तरकरणक्रियाप्रथमसमये यथाऽऽवलिकाप्रमाणा प्रथमस्थितिर्भवति तथैवाऽन्तरकरणक्रियाचरमसमयेऽप्यावलिकाप्रमाणा प्रथमस्थितिर्भवति । सम्यक्त्वमोहनीयस्य त्वधस्तादन्तमुहर्तमात्रां स्थितिमुक्त्वो. परितनस्थितिं च विष्कम्भयित्वाऽन्तरालगतस्थितेरन्तमुहूर्तमात्रमन्तरकरणं करोति । (अत्राऽधस्तनमुच्यमाणाऽन्तमुहर्तप्रमाणा स्थितिर्नोपयु परि वर्धतेऽपितूदयेन क्षीणेषु समयेषु सत्स्वन्तरकरण क्रियायाः समाप्ति यावदधस्तन विमुच्यमाणास्थितिन्यू ना न्यूनतरा भवति ।अन्तरकरणगतस्थितिस्तु तावत्येव, न्यूना न भवतीत्यर्थः ]
. एकस्थितिबन्धाद्धाप्रमाणाऽन्तम हूतेन सम्यक्त्वमोहनीयस्याऽधस्तनाऽन्तर्मुहूर्तप्रमाभावन्तमुहूर्तेन कालेन करोति उपरि तिसृणां प्रकृतीनां द्वितीयस्थितिप्रथमनिषेकाः सदृशा एव, अधः प्रथमस्थित्यग्रनिषेकाः विसदृशा इति ग्राह्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org