________________
१५४ ] उपशमनाकरणम्
[ गाथा ३३ सम्मत्तस्स पढमहितीते चेव छुभति सेसं जहा पुव्वं तहेव उवसमसम्मदिहि जातो अंतोमुहत्तो ता विझायसंकमो भवति" भावार्थ पुनरयम्-चूर्णिकारैः प्रथमौपशमिकसम्यक्त्वस्याऽतिदेशः कृत, किन्तु यथा प्रथमोपशमसम्यक्त्वाधिकारे सम्यक्त्वप्राप्तिसमयादन्तमुहूर्तपर्यन्तं गुणमंक्रमो भवति तथाऽत्रोपशमसम्यक्त्वप्राप्तिप्रथमसमयाद् यद्वाऽपूर्वकरणप्रथमसमयाद् गुणसंक्रम आरभ्यत इति न स्पष्टीकृतम्, यद्यपि प्रथमोपशमिकसम्यक्त्वप्राप्त्यधिकारेऽपूर्वकरणे मिथ्यात्वस्य बध्यमानत्वेन गुणसंक्रमो निषिध्यते, तहयपि अपूर्वकरणे मिथ्यात्वस्याऽवध्यमानत्वेन गुणसंक्रमः संशीयते, अयं भावः-यथा दर्शनत्रिकक्षपणाधिकारेऽनन्ताऽनुबन्धिविसंयोजनाऽधिकारे तदुपशमनाधिकारे च गुणसंक्रमोऽपूर्वकरणयुपदिष्टः, तथा दर्शनत्रिकोपशमनाऽधिकारे गुणसंक्रमो भवति आहोस्विन्न भवति ? इति शंका कैश्चिदपि ग्रन्थकारनं परिहता। यद्यपि गुणसंक्रमपर्यवसानं टीकाकारैर्दर्शितम् , किन्तु तदारम्भो न दर्शितः तथाचाऽत्र पञ्चसंग्रहमूलम्
"पढमुवसमं व सेस अंतमुहुत्ताल तस्स विज्झाओ।" तट्टीका-अन्तर्मुहूर्ताद् व्यतीताद् गणसंक्रमाऽवसाने विध्यातसंक्रमः सम्यक्त्वस्य भवति । तथैवमलयगिरिसूरीश्वराणां पञ्चसंग्रहटीका अन्तरकरणप्रवेशसमयादा. रभ्याऽन्तमुहूर्तेऽतिक्रान्ते गुणसंक्रमाऽवसाने विध्यातसंक्रमस्तस्य सम्यक्त्वस्य भवति । किमुक्त भवति ? विध्यातसक्रमेण मिथ्यात्वसम्यग्मिथ्यात्वयोलिक सम्यक्त्वे प्रविशतीति एवमेवोपाध्यायप्रवरा अप्याहुः ।
एवं प्रकारेण गुणसंक्रमारम्भकालोऽस्माभिर्न निर्णीयत इति बहुश्रुता निश्चिन्वन्तु । अपूर्वकरणस्य प्रथमसमये यत् स्थितिसत्त्वमासीत्, तदेव नच्चरमसमये संख्येयगुणहीनं भवति । अपूर्वकरणानन्तरमनिवृत्तिकरणं प्रविशति । अनिवृत्तिकरणेऽपि पूर्ववत् स्थितिघातादयः प्रवर्तन्ते। अनिवृत्तिकरणम्य संख्येयबहुभागेषु गतेषुष्वसंख्येयसमय प्रबद्धप्रमाणा उदीरणा भवति ।'
उक्त च कषायप्राभृतो "दसणमोहणोयउवसामणअणियटिअडाए संखेज्जे. सुभागेसुगदेसु सम्मतस्स असंखेजाणं समयप्रबडाणमुदीरणा" ततोऽन्तमु हुतं गत्वाऽन्तरकरण कतु मारभते ।उक्तं च कषायप्राभतचूर्णौतदोअंतोमुहूत्तेण दंसणमोहणीयस्स टिप्पणी * तथैवलब्धिसारेऽाधिकद्विशततमगाथायां तथा नवाऽधिकद्विशततमगथायामुक्तम्
उवमामण प्रणिट्टिसंखाभागानु तीदासु ॥२०८।। सम्मस्स असंखेज्जा समयपबद्धाणुदीरणा होदि।
ततो मुहुत्तअंते दंसण मोहंतरं कुणई । २०६ ।। जलब्धिसारस्यदशाधिकद्विशततमगाथायाष्टकायामप्युक्तम्-उदयवत्या सम्यक्त्वप्रकृतेरन्तमुहूर्तमात्रीमनुदितयोरितरयो मिथ्यात्वमियोश्चावलीमात्री प्रथमस्थिति मुक्त्वोपयंन्तमुहूर्त निषेकाणामन्तर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org