________________
श्रेणिगतोपशमसम्यक्त्वः ] दनमोहत्रिकोपशमनाधिकारः
[ १५७ अन्तरकरणक्रियाकाले पूर्णे प्रथमोपशमिकसम्यक्त्ववदत्राऽप्यनन्तरसमयात्प्रभृति द्वितीयस्थितिगतदर्शनत्रिकदलिकं प्रतिममयमसंख्यगुणकारेणानिवृत्तिकरणचरमसमयं यावदुपशमयति चरमसमये च सत्तागतदर्शन त्रिकसर्वदलिकं सर्वथोपशमितं संभवति । सम्यक्त्वमोहनीयस्य प्रथमस्थितेरावलिकाद्वये शेषे सम्यक्त्वस्य आगालो गुणश्रेणिश्च व्यवच्छिद्यते । सम्यक्त्व. मोहनीयस्य प्रथमस्थितेरावलिकायां शेषायां दर्शनमोहस्य स्थितिघातो रसघातो सम्यक्त्वमोहनीयस्य चोदीरणा विच्छिद्यन्ते । ततः सम्यक्त्वमोहनीयस्याऽऽवलिकाप्रमाणां स्थिति केवलेन शुद्धेनोदयेनाऽनुभयाऽन्तरकरणं प्रविशन्नेव श्रेणिगतोपशमिकसम्यक्त्वं लभते । अन्तरकरण औपशमिकसम्यग्दृष्टिः प्रतिसमयमनन्तगुणवृद्धया विशुद्धयाऽन्तमुहर्त यावत् प्रवर्धमानो भवति । अपमिकसम्यक्त्वप्राप्तितोऽन्तर्मुहूर्तेऽतीते गुणसंक्रमा
लब्धिसारस्य त्रयोदशाधिकद्विशततमगाथायामेतदुक्तम् मिथ्यात्वमोहनीयस्य मिश्रमोहनोयस्य चोदयावलिकाया उपरितनान्तरकरणगता या स्थितयः सम्यक्त्वमोहनीयस्य प्रथमस्थिति पर्यन्तं विद्यन्ते तस्थितिगतदलिकानि सम्यक्त्वमोहनीयस्य ताभिः(मिथ्यात्वमिश्रसत्कस्थितिभिः) सहक्षासु स्थितिषुप्रक्षिप्यन्ते। अक्षराणित्वेवम्-मिथ्य त्वमिश्रयोरुदयावलिबाह्यान्तरायामे सम्यक्त्व प्रकृतिप्रथमस्थितिसदश स्थितः ये निषेकास्तानुरकीर्य स्वसमानस्थितिष सम्यक्स्वप्रकृतिप्रथमस्थितिनिपेकेष्वेव निक्षिपति, म तेषां निक्षेपविभागोऽस्ति यदुपरिस्थितान्तराऽऽयामनिकाःफालिगता:सर्वेऽपि पूर्वोक्त विधानेनैव सम्यक्त्वप्रकृतिप्रथमस्थितौ गुणश्रेण्यामुदयावल्यां च विभज्य निक्षिपतीत्यर्थः ।। (लब्धि. २१३) भावार्थः पुनरयम-मिश्रमोहनायस्य मिथ्यात्वमोहनीयस्य च प्रथमस्थितिरावलिकाप्रमाणा, सम्यक्रवमोहनीयस्य च प्रथमस्थितिर तमुहर्तप्रमाणा। मिथ्यात्वमोहनीयस्य मिश्रमोहनीयस्यच प्रथम स्थिते. परितनप्रथमनिषेकगतद्रव्यं सम्यक्त्वमोहनीयस्य प्रथमस्थिते रावलिकाया उपरितनप्रथमनिषेके प्रक्षिपति । एवं मिथ्यात्वमोहनीयस्य मिश्रमोहनीयस्य च प्रथमस्थितरुपरिनन द्वतीयनिकगतदलं सम्यक्त्वमोहनीयस्य च प्रथमस्थितेरावलिकाया उपरितन द्वितीयनिषेके निक्षिपति एवं तावद्ववक्तव्यम, यावद सम्यक्त्वमोहनीयप्रथमस्थितेश्चरमनिषेकेण सहश: मिथ्यात्वमोहनीयाय मिबमोहनीयम्य च निषेकः । ततः परं दर्शनत्रिकस्यान्तरकरणायामत उत्कीयमाणदलिकं सम्यक्त्वप्रथम स्थिती कोऽर्थः ? गुणबेण्यामुदयवल्यां च विभज्य निक्षिपति । फालिद्रव्यं प्रथमस्थितावपकृष्टद्रव्यं प्रथमस्थिती द्वितीयस्थितौ यथायोगं प्रक्षिपति, ताचाऽन्तरकरणक्रियाकालस्य द्विचरमसमयपर्यन्तं ज्ञातव्यम् । अन्तरकरणक्रियाकालचरमसमये फालिद्रव्यमपकष्टद्रव्यं च सम्यक्त्वमोहनीयप्रथमस्थितौ निक्षिपति । उक्त च लब्धिसारे "जावंतरस्स दुचरिमफालि पावे इमो कमो ताव ।
चरिमतिदंसपदव्वं छह दि सम्मस्स पढमम्हि ।।२१४ । एव फलिद्रध्यस्याऽपकृष्टद्रव्यस्य च यावदन्तरद्विचरमफालि प्राप्नोति तावदयमेवनिक्षेपक्रमः । पुनर्दशनमोहत्रयस्य चरमफालिद्रव्यं तत्राऽपकृष्टद्रव्यं च सर्व सम्यक्त्वप्रकृति प्रथमस्थितावेव निक्षिपति न पूर्व वदन्तरापकष्टबहुभागस्य द्वितोयस्थिती निक्षेप कर्तव्य इति भावः'। चरम समयेऽस्य निक्षेपक्रमस्य कारणं न विद्मः । तत्वं तु तद्विदो विदन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org