________________
१५८ ]
[ गाथा ३४
saara मिध्यात्वस्य मिश्रस्य च विध्यातसंक्रमो भवति । इदमुक्तं भवति - विध्यातसंक्रमेण मिथ्यात्वसम्यङ्मिथ्यात्वयोर्दलिकं सम्यक्त्वे प्रक्षिपति । उक्तं च पञ्चसंग्रहे - "पदमुचसमं व सेस अतिमुहुलाउ तस्स विज्झाओ न्ति ।"
यथा प्रथमोपशमिकसम्यक्त्वप्राप्तिसमयात् प्रतिसमयमनन्तगुणहृद्धया विशुद्धिरन्तर्मुहूकालं यावत् प्रवर्धते स्म, तथैवापशमश्रेणिगतौ पशमिक पम्यक्त्व लाभसमयात् प्रतिसमयमनन्तगुणवृद्धया विशोधिः संख्यातगुणेन वृहत्तराऽन्तमुहूर्तकालं यावत् प्रवर्धते । उक्तं च कषायमाभृतचूर्णो "पढमदाए सम्मत्तमुपादयमाणस्स जो गुणसंकमेण पूरणकालो तदो संजगुणं कालमिमो उवसंतदंसणमोहणीओ विसोहीए वढदि,, । औपशमिकस - क्लामा व्यतिक्रान्ते कश्चिन्तुर्हीयमानपरिणामः कश्चित्प्रवर्धमानः कश्चिदवस्थितपरिणामो वा भवति ।
दर्शनत्रिकमुपशमय्य किं करतीत्याह
उपशमनाकरणम्
C4
श्रद्धा परिवित्तायो पमत्तइयरे सहस्तसो किच्चा ।
करणानि तिन्नि कुणा तइयविसेसे इमे सुणसु || ३ ४ ||
Jain Education International
T
अद्धापरिवृत्तिः प्रमत्त इतेरे सहस्रशः कृत्वा ।
करणानि त्रीणि करोति तृतीयविशेषानिमान् शृणुत ।। ३४|| इति पदसंस्कार; 'अद्धा' इत्यादि, संक्लेशविशोधिवशात्प्रमत्तभाव इतरे चाऽप्रमत्तभावे कालपरावृत्तिः सहस्रशः कृत्वा चारित्रमोहनीयोपशमनाथ त्रीणि करणानि यथाप्रवृत्तादीनि करोति । तथा चोक्तंप्राभृतचूर्णी - "तहा चेव ताव उवसंत दंस मोहणिजो असादअरदिमोगअज• सागित्तिआदोसु बंधपरावत्तसहस्साणि कादृण तदो कसाए उवसामेडु कच्चे अधावतकरणस्स परिणाम परिणमइ ।" इति । एवं दर्शनत्रिकमुपशमय्य वा क्षपयित्वा जीवः पष्ठगुणस्थानकं सप्तमगुणस्थानकं च सहस्रशः स्पृष्ट्वा चारित्र मोहनीयोपशमनार्थ करणत्रयं करोति । तत्राऽप्रमत्तगुणस्थान के यथाप्रवृत्तकरण मपूर्वकरण गुणस्थान के पूर्व करणमनिवृत्तिकरण गुणस्थान के चानिवृत्तिकरणं क्रमशो भवति । तानि करणानि प्रागिव वक्तव्यानि । तद्यथा - - यथाप्रवृत्त करणे स्थितिघातो रातो गुणश्रेणिश्च न भवन्ति, केवलमनन्नगुणवृद्धया विशुद्धयां प्रवर्धमानो भवति । नानाजीवाऽपेक्षयाऽध्यवसायस्थानानि विशोधिश्व सर्व पूर्ववज्ज्ञातव्यम् । उक्तं च कषायप्रभृतचूर्णो - "तं चेच इमस्स वि अद्धापवत्तकरणलक्खणं जं पुव्व परुविद" इति। यथाप्रवृत्त करणकालात्पूर्वावस्थायां पूर्ववदत्राऽपि योग्यता वक्तव्या, नवरं बन्ध उदये च संयमयोग्याः प्रकृतयो ज्ञातव्याः ।सत्तायां चाऽयं विशेषो ज्ञातव्यः । नरकतिर्यगायुरनन्तानुबन्धिचतुष्करूपाः षटू प्रकृती
For Private & Personal Use Only
www.jainelibrary.org