________________
1
अपूर्वकरणे स्थितिघातादयः ]
चारित्र मोहोपशमनाधिकारः
[ १५६
मुक्त्वा द्वाचत्वारिंशदधिकशतं प्रकृतयः सत्तायां विद्यन्ते, अबद्धायुष्कस्त्वेक चत्वारिंशदधिकशतं प्रकृतयः विद्यन्ते, अनन्तानुबन्धि चतुष्कस्योपशमनामभ्युपगन्तृगामाचार्याणां मतेन पूर्वतश्चतस्रः प्रकृतयोऽधिकाः सत्तायां वाच्याः । क्षीणसप्तकस्य तु पूर्वतस्तिस्रः प्रकृतयो न्यूना वक्तव्याः ।
प्रथमसमय
अपूर्वकरणप्रथमममयादारभ्य स्थितिघातो रसघातो गुणश्रेणिरपूर्व स्थितिबन्धथाऽऽरभ्यन्ते तेषां स्वरूपं पूर्ववदवगन्तव्यम् । तथापि स्थानाशून्यार्थमत्र किञ्चिदभिधीयते - अपूर्वकरणस्य औपशमिकसम्यग्दृष्टेर्जघन्य स्थितिखण्डं पल्योपमसंख्येय भाग मात्र मुत्कृष्टतस्तु सागरोपमपृथक्त्व प्रमाणं भवति । क्षायिकसम्यग्दृष्टेस्तु घात्यमानं : स्थितिखण्डमुत्कृष्टोऽपि पल्योपमसंख्येयतम भागमात्रं भवति, न तु सागरोपमपृथक्त्वमात्रम् । उक्त च कषायप्राभृतचूर्णो - "जो खीणदंसणमाहणिज्जो कसायउवसामगो तस्स खीणदंसणमोहणिज्जस्स कसा उवसामणाए अपुव्यकरणे पढमट्ठिदिखंडय णियमा पलिदोषमस्स संखेज्जदिभागो ।" इति । अत्र कारणमिदं संभाव्यते-स्थितिखण्डस्य स्थितिसत्कर्माऽनुसारित्वाद् दर्शन मोहनीयम्लपणायां स्थितिघातैः प्रभूतानां स्थितीनां विनष्टत्वादुत्कृष्टतोऽपि स्थितिखण्डं पल्योरम संख्येय भागमात्रं भवति । अभिनवस्थितिबन्धश्च प्रत्यन्तमुहुर्त पल्योपमसंख्येयभागेन हीनो भवति । एकस्मिन् स्थितिघातेऽभिनवस्थितिबन्धे वाऽनेकसहस्राणि रसघाता व्रजन्ति । स्थितिघातोऽभिनव स्थितिबन्धश्च युगपदारभ्येते युगपन्निष्ठां च यातः ।
सप्तकर्मणां गुणश्रेणिः पूर्ववद् गलिताऽवशेषमात्री भवति तदायामश्च पूर्ववदन्तमुहूर्त प्रमाणो पूर्वकरणानिवृत्तिकरण कालद्वयात्किञ्चिदधिकः । स च गुणश्रेण्यायामोऽपूर्वकरणाद्वानिवृत्तिकरणाऽद्धामूक्ष्म संपरायाद्धोपशान्तकषायगुणस्थान मत्कसंख्येय भागप्रमाणो भवति, तथा चाऽपूर्वकरणान्प्रारब्धा गलितावशेषप्रमाणा गुणश्रेणिः सूक्ष्मसंपराय चरमसमयं यावत्प्रवर्तते, तदानीं च प्रवर्तमानाया गुणश्रेण्या निक्षेप उपशान्तमोह गुणस्थानकसंख्ये यतमाऽऽयामे भवति, तथा पूर्वकरणप्रथमसमये गुणश्रेणिशीर्षमासीत्, तदेव सूक्ष्मसंपरायचरसमयेऽपि भवति, तेनेदं
लब्धिसारेऽपि क्षायिक सम्यग्दृष्ट रुत्कृष्टतोऽपि स्थितिखण्ड पल्योपमसंख्यात भागमात्रमे वाऽक्षराणि वेत्रम्" तस्मिन्नवापूर्वकरण प्रथमसमये वर्तमानस्य चारित्रमोह पशमकस्य क्षायिक सम्यग्दृष्टेर्जघन्यमु त्कृष्टं च स्थितिकाण्डक पल्य संख्यात भागमात्र मेव तथाऽपि जघन्यादुत्कष्टं संख्यातगुणितम्, दर्शनमोहनक्षपणकाले विशुद्धिविशेषेण कर्मस्थिते बहुशः वण्डितत्वात्स्थित्यनुसारेण च काण्डकाल्पबहुत्वस्य न्यायत्वात्
ܙܕ
★ उदयावलि बहिः प्रथमसमयः दारभ्याऽतिवृत्तिकरणसूक्ष्मसंप रायगुणस्थानककालेभ्य उपशान्तकषायकाल संख्यातैकभागमात्रेणाऽभ्यधिका गुणश्रंणिरपूर्वकरणप्रथमसमये गलिताऽवशेषप्रमाथा प्रारब्धा सा चायुत्र जितसप्तक्रमण मुदयाबलिवाह्यद्रव्य मपकृष्य प्रागुक्तविधानेन निक्षेपस्वरूपा (इति लब्धिसा र २२४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org