Book Title: Karmaprakrutigatmaupashamanakaranam
Author(s): Shivsharmsuri, Gunratnasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 194
________________ [ गाथा ३२ कर्मप्रकृति तथा श्रीमन्मलयगिरिपादानां कर्मप्रकृतिटीकायां पूर्वपूर्वखण्डत उत्तरोत्तरखण्डं कियद्गुणं तन्न निर्दिष्टम्, अपि तु द्विचरमखण्डाच्चरमखण्डं संख्येयगुणमित्येवोक्तम् । अक्षराणित्वेवम्-“सम्मंतचरिमखंडगातो चरिमखंडंगं संखेज्जगुणम्" इति कर्म प्रकृतिचूर्णि । तथा च " एवमान्त मौहितिकान्यनेकानि स्थितिखण्डान्युस्किरति निक्षिपति च तावद् यावद् द्विचरमं स्थितिखण्डम् । द्विचरमात्तु खण्ड च्चरमखण्डं संख्येयगुणम् ।” इति मलयगिरीया टीका । उपर्युक्तैरक्षरैरिदं ज्ञापितं भवति - यत्पञ्चसङ्ग्रहकारमतेनाऽष्टवर्षप्रमास्थितिसत्कर्मणि जाते पूर्वपूर्वखण्डतो द्विचरमखण्डपर्यन्तमसंख्येयगुणानि खण्डानि भवन्ति, किन्तु कर्मप्रकृतिकारैस्तच्चूर्णिकारैश्च पूर्वपूर्वखण्डतः कियद्गुणं स्थितिखण्डं भवति यावद् द्विचरमखण्डमिति तन्त्र निर्दिष्टम्, पञ्चसङ्ग्रह मूलकाराननुसृत्य श्रीमन्मलयगिरिपादैः पञ्चसङ्ग्रहटीकायां पूर्वपूर्वखण्डतो द्विवरमखण्डं यावदसंख्येयगुणमुक्तम् । किन्तु कर्मप्रकृतिटीकायां नोक्तं तैः । उपाध्याय प्रवरैस्तु पञ्चसङ्ग्रह काराणामभिप्रायेण पूर्वपूर्वतो द्विचरमखण्डं यावदसंख्येय गुणमभिहितमित्यस्माकं मतिः । कषायप्राभृतचूर्णिकारैरपि द्विचरमखण्डाच्चरमखण्डं संख्येयगुणमित्युक्तं न तु द्विरमात्पूर्वेषां खण्डानां पूर्वपूर्वतोऽसंख्येयगुणत्वम् । किञ्चाऽल्पबहुत्वाऽधिकारे चरमखण्डतोऽष्टवर्षप्रमाणस्थितौ सत्यां प्रथमखण्डं संख्यातगुणमिति कषायप्राभृतचूर्णिकारै निगदितम्, तथा चाsत्र कषायपाभृतचूर्णि:-"सम्मत्तस्स दुचरिमडिदिखंडयं संखेज्जगुणं तस्सेव चरमद्विदिखंडयं संखेज्जगुणं अट्ठवसम्स द्विदिगे संतकम्मे सेसे जं पदम डिदिखंडयं तं सखेज्जगुणं " इति पूर्वपूर्वतोऽसंख्येयगुण उत्तरोत्तरखण्डे स्वीक्रियमाण इदमन्पबहुत्वं न संगच्छेत्, प्रथमखण्डस्याऽसंख्येयगुणहीनत्वप्रसंगात्, अतः पञ्चसङ्ग्रहकारादिभिर्यदसंख्येयगुणमुक्तं तन्मतान्तरं प्रतिभाति, द्विचरमखण्डात्तु चरमखण्डं संख्येयगुणमित्यत्र न कश्चिद्विसंवादः । यद्यष्टवर्षप्रमाणस्थितिसत्कर्मणि जाते पूर्वपूर्वखण्डत उत्तरोत्तरखण्ड मसंख्येयगुणं स्वीक्रियेत, तर्हि प्रथमखण्डप्रभृतित्रिचरमखण्डपर्यवसानानि समुदितान्यपि खण्डान्यावलिकाया असंख्येयभागमात्राणि भवेयुः, तथा द्विचरमखण्डं वर्षाष्टकस्यैकसंख्येय भागमात्रं स्वीकर्तव्यं चरमखण्डं चाऽष्टवर्षस्य संख्येयबहुमागमात्रं मन्तव्यम् । कुत इति चेद् १ उच्यते - आत्रिचरमखण्डं कस्यचिदपि खण्डस्यऽऽवलिकायाः संख्ये यतम भागमात्रत्वे स्वीक्रियमाशे तदुत्तरवर्तिखण्डस्याऽसंख्येयाऽऽवलिकाप्रमाणत्वं स्यात्, तच्च नेष्टं स्थितिसत्कर्मणोऽष्टवर्षप्रमाणत्वेन संख्येयाऽऽवलिका प्रमाणखात् । इत्थं पूर्वोक्तक्रमेण चरमखण्डं वर्जयित्वा सम्यक्त्वस्य सर्वस्थितिसत्त्वं विनाशयति । संप्रति चरमखण्डस्य प्ररूपणा क्रियते । चरमखण्डं द्विचरमखण्डतः संख्येयगुणं चरमस्-ि १३६ ] Jain Education International उपशमनाकरणम् For Private & Personal Use Only • www.jainelibrary.org

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332