________________
[ गाथा ३२
कर्मप्रकृति
तथा श्रीमन्मलयगिरिपादानां कर्मप्रकृतिटीकायां पूर्वपूर्वखण्डत उत्तरोत्तरखण्डं कियद्गुणं तन्न निर्दिष्टम्, अपि तु द्विचरमखण्डाच्चरमखण्डं संख्येयगुणमित्येवोक्तम् । अक्षराणित्वेवम्-“सम्मंतचरिमखंडगातो चरिमखंडंगं संखेज्जगुणम्" इति कर्म प्रकृतिचूर्णि । तथा च
" एवमान्त मौहितिकान्यनेकानि स्थितिखण्डान्युस्किरति निक्षिपति च तावद् यावद् द्विचरमं स्थितिखण्डम् । द्विचरमात्तु खण्ड च्चरमखण्डं संख्येयगुणम् ।” इति मलयगिरीया टीका । उपर्युक्तैरक्षरैरिदं ज्ञापितं भवति - यत्पञ्चसङ्ग्रहकारमतेनाऽष्टवर्षप्रमास्थितिसत्कर्मणि जाते पूर्वपूर्वखण्डतो द्विचरमखण्डपर्यन्तमसंख्येयगुणानि खण्डानि भवन्ति, किन्तु कर्मप्रकृतिकारैस्तच्चूर्णिकारैश्च पूर्वपूर्वखण्डतः कियद्गुणं स्थितिखण्डं भवति यावद् द्विचरमखण्डमिति तन्त्र निर्दिष्टम्, पञ्चसङ्ग्रह मूलकाराननुसृत्य श्रीमन्मलयगिरिपादैः पञ्चसङ्ग्रहटीकायां पूर्वपूर्वखण्डतो द्विवरमखण्डं यावदसंख्येयगुणमुक्तम् । किन्तु कर्मप्रकृतिटीकायां नोक्तं तैः । उपाध्याय प्रवरैस्तु पञ्चसङ्ग्रह काराणामभिप्रायेण पूर्वपूर्वतो द्विचरमखण्डं यावदसंख्येय गुणमभिहितमित्यस्माकं मतिः । कषायप्राभृतचूर्णिकारैरपि द्विचरमखण्डाच्चरमखण्डं संख्येयगुणमित्युक्तं न तु द्विरमात्पूर्वेषां खण्डानां पूर्वपूर्वतोऽसंख्येयगुणत्वम् । किञ्चाऽल्पबहुत्वाऽधिकारे चरमखण्डतोऽष्टवर्षप्रमाणस्थितौ सत्यां प्रथमखण्डं संख्यातगुणमिति कषायप्राभृतचूर्णिकारै निगदितम्, तथा चाsत्र कषायपाभृतचूर्णि:-"सम्मत्तस्स दुचरिमडिदिखंडयं संखेज्जगुणं तस्सेव चरमद्विदिखंडयं संखेज्जगुणं अट्ठवसम्स द्विदिगे संतकम्मे सेसे जं पदम डिदिखंडयं तं सखेज्जगुणं " इति पूर्वपूर्वतोऽसंख्येयगुण उत्तरोत्तरखण्डे स्वीक्रियमाण इदमन्पबहुत्वं न संगच्छेत्, प्रथमखण्डस्याऽसंख्येयगुणहीनत्वप्रसंगात्, अतः पञ्चसङ्ग्रहकारादिभिर्यदसंख्येयगुणमुक्तं तन्मतान्तरं प्रतिभाति, द्विचरमखण्डात्तु चरमखण्डं संख्येयगुणमित्यत्र न कश्चिद्विसंवादः । यद्यष्टवर्षप्रमाणस्थितिसत्कर्मणि जाते पूर्वपूर्वखण्डत उत्तरोत्तरखण्ड मसंख्येयगुणं स्वीक्रियेत, तर्हि प्रथमखण्डप्रभृतित्रिचरमखण्डपर्यवसानानि समुदितान्यपि खण्डान्यावलिकाया असंख्येयभागमात्राणि भवेयुः, तथा द्विचरमखण्डं वर्षाष्टकस्यैकसंख्येय भागमात्रं स्वीकर्तव्यं चरमखण्डं चाऽष्टवर्षस्य संख्येयबहुमागमात्रं मन्तव्यम् । कुत इति चेद् १ उच्यते - आत्रिचरमखण्डं कस्यचिदपि खण्डस्यऽऽवलिकायाः संख्ये यतम भागमात्रत्वे स्वीक्रियमाशे तदुत्तरवर्तिखण्डस्याऽसंख्येयाऽऽवलिकाप्रमाणत्वं स्यात्, तच्च नेष्टं स्थितिसत्कर्मणोऽष्टवर्षप्रमाणत्वेन संख्येयाऽऽवलिका प्रमाणखात् । इत्थं पूर्वोक्तक्रमेण चरमखण्डं वर्जयित्वा सम्यक्त्वस्य सर्वस्थितिसत्त्वं विनाशयति । संप्रति चरमखण्डस्य प्ररूपणा क्रियते । चरमखण्डं द्विचरमखण्डतः संख्येयगुणं चरमस्-ि
१३६ ]
Jain Education International
उपशमनाकरणम्
For Private & Personal Use Only
•
www.jainelibrary.org