________________
स्थितिघातः ] अनिवृत्तिकरणाधिकारः
[ १३४ ऽनन्तगुणहीनं करोति स्म । उक्तं च कषायमाभृतौँ -"जाधे अट्ठवासहिदिगं संतकम्म सम्मत्तस्स ताधे पाए सम्मत्तस्स अणुभागस्स अणसमयं ओवट्टणा । एसो ताव एको किरयापरिवत्तो"इति । सम्यक्त्वमोहनीयस्याऽवर्षप्रमाणस्थितिसत्कर्मणि जाते यान्यन्तमुहूर्तप्रमाणानि खण्डानि भवन्ति, तत्र पूर्वपूर्वत उत्तरोत्तरखण्डमसंख्येय गुणं भवत्येवं तावद्वक्तव्यम्. यावद् द्विचरमसमयखण्डम्, चरमखण्डं तु पूर्वतः संख्यातगुणं बृहत्तरमिति पञ्चसग्रहकारादीनामभिप्रायः, अक्षराणि त्येवम्
"उकिरह असंखगुणं जावदुचरिमंति अंतिमे खंडे ।
संखेज्जंसो खंडा गुणसेढोए तहा देह ॥१॥" इति । तन्मूलटीका-स्थित्यग्रादुत्किरति खण्डयत्यन्तर्मुहूर्तम, भूयोऽसंख्येयगुणनया यावद् द्विचरमखण्डम्, अन्तिमवण्डस्य संख्येयभागं खडयति, गुणश्रेण्यां तथा तेनैव प्रकारेण ददाति, तद्दलमिति गाथार्थः । "इति ।
तथैव तद्गाथायाष्टोकायां श्रीमन्मलयगिरिसूरीश्वरैरप्युक्तम्-"ततो रितीयस्थितिखण्डमन्तमुहर्तप्रमाणं पूर्वस्मादसंख्येयगुणमुत्किरति-खण्डयति, प्रागुक्तप्रकारेण चोदयसमयादारभ्य निक्षिपति । एवं पूर्वस्मात्पूर्वस्मादसख्येयगुणं स्थितिखण्डकमुत्किरस्तावद्वक्तव्यो यावद् द्विचरमस्थितिखण्डम्, द्विघरमाच्च स्थितिखण्डादन्तिमं स्थितिखण्डं संख्येषगुणम् ।"
तथैव चोक्तं कर्मप्रकृतिटीकायामुपाध्यायप्रवरैरपि-"ततो द्वितीयं स्थितिखण्डमन्तमुहूर्तप्रमाणं पूर्वस्मादसंख्येयगुणमुत्किरति, उत्कीर्य च प्रागुक्तप्रकारेणोदयसमयादारभ्य निक्षिपति, एव पूर्वस्मात्पूर्वस्मादसंख्येयगुणान्यन्तमौहर्तिकान्यनेकानि स्थितिखण्डान्युतिकरति निक्षिपति च तावद्यावद् द्विचरमस्थितिखण्डम, द्विचरमाच्च स्थितिखण्डादन्तिम स्थितिखण्डं संख्येयगुणम् ।" इति ।
* टिप्पणी-जं सम्मत्तागुभागस्स पुर्व विद्यारिणयसरुवस्स एण्हिमेगट्टाणियसरुवेणाणसमयोवट्टणा पारद्धा त्ति । पुनमंतोमुत्तेण कालेणाणुभागखडयं रिणवत्तेदि। इदारिंण पुरण खंडयघादमुक्संहरियूण समए समए सम्मत्तस्स प्रणुभागमण गुणहाणीए ओवदि त्ति वृत्तं होइ। तं पुण अणुसमयोवट्टणमेवमणुगतवं -अरणंतरहेट्ठिमसमयाणभागसंतकम्मादो सपहियसमये अणुमागसंतकम्ममुदयालयबाहिरमणतगुणहीण एण्हिमुदयावलियबाहिराणभागसतकम्मादो उदयावलियम्भंतरमणप्पविसमा मणतगुणहीण एवं समये समये जाय सनयाहियावलियमक्खीण सणमोहो ति। तत्तो परमावलियमेत्तकालमुदयं पविसमारणाणभागस्स अणुसमयोवट्टरपा ति । (भाग-१३ पृ. सं. ६३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org