Book Title: Karmaprakrutigatmaupashamanakaranam
Author(s): Shivsharmsuri, Gunratnasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 177
________________ स्थितिधाताादयः] अपूर्वकरणाधिभर: [ ११९ निधया कानिचित्स्थितिखण्डानि संख्येय गुणहीनान्यपि भवन्ति, किन्न्वनन्तरोपनिधया पूर्वपूर्वत उत्तरोत्तरस्थितिखण्डानि विशेषहीनान्येव भवन्ति । न चाऽपूर्वकरणे प्रतिसमयं पूर्वपूर्वतो विशुद्धे. रनन्तगुणत्वेन स्थितिखण्डानां विशेषडीनत्वं कथमुच्यते, अधिकं वक्तव्यमिति वाच्यम् , स्थितिखण्डस्य सत्तागतस्थित्यनुसारित्वेन केवलं विशुद्धयनाश्रयणात् ।। अत्रोद्वलनानुविद्धगुणसङ्क्रमस्य प्रवर्तमानत्वाद् घात्यमानखण्डानां मिथ्यात्वमोहनीयस्य दलिकं स्वस्थानेऽधी तथा मिश्रमोहनीये सम्यक्त्वे च निक्षिप्यते, मिश्रमोहनीयस्य च दलिका मधः स्वस्थाने तथा मम्यक्त्वमोहनीये च प्रक्षिप्यते, तथा व्याघातभाव्यपवर्तनया सम्यक्त्वमोहनीयस्य दलिकं स्वस्थानेऽधो प्रक्षिप्यते । स्थितिघातरसघातगुणश्रेणीनां स्वरूपं पूर्ववज्ज्ञेयम् । गुणश्रेणिनिक्षेपस्त्वपूर्वकरणाऽनिवृत्तिकरणाद्धाद्वयादधिको द्रष्टव्यः, स च गलिताऽवशेषमात्रः, उदयेन पूर्वपूर्वसमये क्षीणे हीनो हीनतरो भवति, एवं संख्यातसहस्रः स्थितिधातैरपूर्व करणं परिसमापयति । तथाऽपूर्वकरणस्य प्रथमसमये यस्थितिसत्कर्माऽऽसीत् , तस्यैव चरमसमये संख्येगुण हीनं भवति । उक्तं च पश्चसङ्ग्रहोपशमनाकरणस्य मूले अपुवकरणसमगं गुण उव्वलणं करेह दोण्हं पि । तकरणाई जं तं हिइसतं संग्वभागन्ते ।। ३७ ।। " इति । तथैव मूलटोकायामप्युक्तम्-'तं च गुणसङक्रमपूर्वकरणेन "समं" ममकालमुद्वलनविधिना करोति, द्वयोरप्यनुदितपुञ्जयोमिथ्यात्वसम्यग्मिथ्यात्वाख्ययोस्तस्करणादौ यह स्थितिखण्ड (ततो द्वितीयं विशेषहीनं) एवं यावत्करणसमाप्तिरिति यत्करणादौ स्थितिसत्कर्म तस्य करणाऽन्ते संख्येयभागो भवतीति" गाथार्थः । इति । तथैव मलयगिरिटोकायामपि निगदितम्- 'अपूर्वकरणसमकमपूर्वकरणप्रथमसमयादारभ्येत्यर्थः, गुणसङ्कममुद्रलनं च द्वयोरनुदितयोमिथ्यात्वयोः करोति । तत्करणादावपूर्वकरणादौ यस्थितिसत्कर्माऽऽसीत् , तत्तस्यैव करणस्यान्ते चरमसमये संख्येयभागमात्रं भवति प्रथमसमयाऽपेक्षया संख्येयगुणहीनं भवतीश्यर्थः" इति । तथाऽपूर्वकरणस्य प्रथमसमये यः स्थितिबन्ध आसीत् , स करणाऽन्ते संख्येयगुणहीनो भवति । उक्तं च पञ्चसङ्ग्रहोपशमनाऽधिकारे-"एव हिबंधो विहु, पविसह अणि. यटिकरणसमयंमि।" इति । तथैव टीकायामपि "एवमनेनैव सत्कर्मन्यायेन स्थिति बन्धोऽपि योऽपूर्वकरणादासीत् , तस्मादन्तसमये संख्येयगुणहीनो भवति।" इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332