Book Title: Karmaprakrutigatmaupashamanakaranam
Author(s): Shivsharmsuri, Gunratnasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text ________________
उपशमका: ]
अनन्त० उपशमनाधिकार :
[ १९१
•
भवति यद्वाssवलिका प्रमाणस्थितिरणिस्तिकसङ्क्रमेण सङ्क्रमय्य निःमत्ताका क्रियते । ततः परमन्तर्मुहूर्तं यावदनिवृत्तिकरणं कथमवशिष्यते १ एवं स्वीक्रियमाणे ह्यनिवृत्तिकरण एव गुणप्राप्तिरभ्युपगमः स्यात् न चैतादृग् गुणप्राप्तिग्न्यत्र प्रतिपादिता द्रष्टा तर्ह्यत्र कथं स्वीक्रियते ? तथा चाऽनन्तानुबन्धिविनाशतोऽन्तमुहूर्ते गते शेषकर्मणां स्थितिघातादयो निवर्तन्त इति चूर्णि काराणामभिप्रायः, न हि तैरुक्ता ISनिवृत्तिकरण पर्यवसाने शेषकर्मणां स्थितिघातादीनां निवृत्तिरिति चेद् ? उच्यते - श्रोमन्मलयगिरिसुरोश्वराणामक्षगणि सङ्गमयितुकामैः सति शब्दोऽध्याहार्यते तच्छब्देनाssवलिका शेषः परामृश्यते । तेनाऽयमर्थः- तत आवलिका शेषतोऽनन्तरमनिवृत्तिकरणपर्यवमाने सत्यन्तमुहूर्तात्रतः शेषकर्मणां स्थितिघातादयो व्यवच्छिद्यन्ते । ननु स्थितिघातादीनां निश्चयो जातः, तथाऽपि विमुच्यमानोदयाऽऽवलिकाऽनिवृत्तिकरणसम्बन्धिनी भवत्याहोस्विन्नेतिचेद् ? अत्रोच्यते, अनिवृतिकरणे च वर्तमानः सन् गुणसङ्क्रमानुविनोलनासकमेण निरवशेषान्विनाशयति किन्त्वधस्तादावलिकामात्रव्यतिक्रान्ते स्थितिघातादयो व्यवच्छिद्यन्त इत्यर्थः, अनिवृत्तिकरणस्य चरमसमये चाssवलिकावर्ज सर्वमनन्तानुबन्धिनां सत्कर्म विनाशयति, प्रतिपादितश्चाऽनन्तानुबन्धिनामावलिकावर्ज सर्वस्थितिविनाश उपाध्याय पादैरपि तथा च तद्ग्रन्थः- अनिवृत्तिकरणे च वर्तमानः सन् गुणसङक्रमानुविद्धे नोलनासङ्क्रमेण निरवशेषान् विनाशयति किन्त्वधस्तादावलिकामात्र मुञ्चति" इति एतैरपि वाप्यत आवलिका मात्रास्थितिरनिवृत्तिकरणे न विनाश्यते, चरमममय आवलिकामात्रवर्ज सर्वस्थिती घातितायामनन्तरसमयेऽनिवृत्तिकरणं व्यवच्छिन्नं मातीत्यर्थः । अनिवृत्तिकग्णतः परमावलिकामात्रस्थिति स्तिबुकसङ्क्रमेण निःसत्वां करोति । तत्व पुनरस्थानद्वयं ऽपि बहुश्रुता विदन्ति ।
तदेवमुक्ताऽनन्तानुबन्धिनां विसंयोजना |
अत्र केचिदाचार्या अनन्तानुबन्धिनामुपशमनामध्यभ्युपगच्छन्ति तन्मतेनोपशमनाविधियते । अविरतसम्यग्दृष्टिदेशविरतप्रमत्ताऽप्रमत्तेष्वन्यतमोऽमनुष्योन्यतमयोगे वर्तमानस्तेजःपद्मशुक्ललेश्यास्वन्यतमलेश्यया युक्तः साकारोपयोगेनोपयुक्तोऽन्तः सागरोपमकोटाकोटी स्थितिसत्कर्मा करणकालात्पूर्वमन्तर्मुहूर्त यावत्पूर्ववत्परावर्तमानाः प्रकृतीः शुभा एवं बध्नाति तथा
•
* उक्तश्व धवलाटोकायामपि "तो चरिमट्ठिदिखंडय लिदोवमस्स श्रमखेज्जदिभागायामं अतोमुहुत्तमेत्तुक्कीरणकालेन श्रदिक्कतो श्रणियट्टिकरणच रिमसमए उदयावलिबाहिर सम्वद्विदिसंतकम्म. परसरूवेण सकामिय तोमुहुत्तकाले मदिरकते दसणमोहणीयक्खपणं पटुवेदि ।”
Jain Education International
2
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332