Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 39
________________ सटीकजंबूद्वीपसमहणी नमिय जिणं सव्वन्नु जगपुज्जं जगगुरुं महावीरं । जंबुद्दीवपयत्थे वुच्छं सुत्ता सपरहेऊ ॥१॥ इह खलु सकलशिष्टैकसम्मततया स्वाभिप्रेतसिद्धये शिष्यशिक्षायै वा दुषमाकालप्रभा. वापचीयमानायुर्मतीनां हेयोपादेयप्रवृत्तिनिवृत्तये लोकस्वभावाख्यभावनाभावितान्तःकरणः संस्थानविचयाख्यधर्मध्यानैकनिबद्धचेताः चत्वारिंशदुत्तरचतुर्दशशतग्रन्थग्रन्थनमालाकारो भगवान् हरिभद्रसूरिः जंबुद्वीपपदार्थावबिभासयिषुरभीष्टदेवतास्तवं चिकीर्षुरासन्नोपकारितयाऽपश्चिमतीर्थाधिपस्य महावीरस्य नुतिरूपं मङ्गलं निबध्नाति, नमियेत्यादि । नमियेति नत्वा, कं ? महाबीरंति महावीरं, पुनः किं विशिष्टं ? जिणं जिनं, पुनः कीदृशं ? सव्वन्नु ति सर्वज्ञ, पुनः किं भूतं ? जगपुज्जति जगत्पूज्यं, पुनः कीदृशं ? जगगुरुति जगद्गुरुं, इति पदसङ्घटना ॥ नमियेति नम्धातोः क्त्वाप्रत्यये “ क्त्वस्तुमत्तण-तुआणाः" ८-२-१४६', " क्त्व इयदूणौ ८-४-२७१२” इति क्त्वाप्रत्ययस्येयादेशे नमियेति, नत्वा प्रणम्य । रागद्वेषादिजेतृत्वाजिनः तं, “नो णः । ८-१-२२८” इति णत्वे जिणमिति । श्रुतावधिमनःपर्यवजिनानां सम्भवात् , तद्व्यवच्छेदायाह सम्वन्नुति । ननु तिजिनाः कथं नोच्यन्त इति चेन्न, मतेर्वतमानकालीनार्थस्यैवावगाहित्वात् तथा चार्षम् “ जमवग्गहाई रूवं पच्चुप्पन्नवत्थुग्गहगं लोए। इंदियमणोनिमित्तं तं आभिणिबोहगं बिति ॥" ननु श्रुतस्य मतेः कार्यत्वात्तस्यापि वार्तमानिकत्वमेव स्यादिति चेन्मैवं श्रुतस्यागमग्रन्थानु. सारित्वात्रिकालविषयताया निर्बाधत्वात् । उक्तञ्च "जं पुण तिकालविसयं आगमगंथाणुसारिविन्नाणं । इंदियमणोनिमित्तं तं सुयनाणं जिणा बिति ॥" ___ सर्व लोकालोकवर्त्तिद्रव्यपर्यायात्मकं वस्तु जानातीति सर्वज्ञस्तं " सर्वत्र लबरामवन्द्रे ८-२-७९ इति रलोपे, “ अनादौ शेषादेशयोद्वित्वम् ८-२-८९” इति वद्वित्वे, “ म्नज्ञोर्णः १ अनेन सूत्रेण क्त्वः अत् आदेशे ‘नमिअ ,' ततः · अवर्णो य श्रुतिः' ८-१-८० सूत्रेण यत्वे 'नमिय'। २ अनेन सूत्रेण शौरसेन्यां क्त्वा-प्रत्ययस्य इयादेशो भवति

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154