Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 116
________________ सटीकजंबूद्वीपसङ्ग्रहणी चोदीच्यां । तत्र दाक्षिणात्येषु अष्टसु विजयेषु प्रत्येकं गङ्गासिन्ध्वभिख्ये द्वे द्वे, एवं ता अपि षोडश । उदीचीनेषु चाष्टसु विजयेषु प्रत्येकं रक्तरक्तवत्यभिधे द्वे द्वे, ता अपि षोडश । सर्वाः सम्मील्याष्टत्रिंशन्महानद्यः । तासु प्रत्येकं चतुर्दशसहस्रपरिवार तथा च सर्वासां परिवारसम्मीलने पञ्चलक्षद्वात्रिंशत्सहस्री नदीनां सीतोदायां निपतति । एवमेव नीलवन्केसरिद्रहदाक्षिणात्यद्वारान्निर्गता सीता उत्तरकुरुषु आगच्छन्ती नीलवदादिपञ्चद्रहान् द्विधाकुर्वन्ती भद्रशालवनमागच्छन्ती मेरोर्द्वियोजनान्तरिता प्राचीनविदेहाभिमुखं वलन्ती माल्यवद्गजदन्तनगं भित्त्रा प्राचीनविदेहं द्विभागी कुर्वन्ती एकैकस्माद् विजयादष्टाविंशतिसहस्रनदीपूरयन्ती तथा च षोडशविजयेभ्यश्चतुर्लक्षाष्टचत्वारिंशत्सहस्र नदी परिवृता, [ तथा चतुरशीतिसहस्रपरिवारयुताभिः षइभिर्विजयच्छेदनीभिर्नदीभिः पूरयन्ती] सर्वा: सम्मील्य पञ्चलक्षद्वात्रिंशत्सहस्रनदीप रिकरिता जंबूद्वीपप्राचीनस्थविजयाभिधद्वाराघो जगतीं भित्रोभयोः पार्श्वयोः पद्मवरवेदिका वनखण्डपरिकरिता प्राचीनलवणाम्बुराशिं सङ्गच्छति । अत्रापि दाक्षिणात्यप्राचीन विदेहस्य प्रत्येकं विजयेषु गङ्गासिन्ध्वभिधे द्वे द्वे सरितौ, उदीचीनविदहेषु च रक्तारक्तवत्यभिधे दे द्वे सलिले, एवं च षोडशविजयेषु द्वात्रिंशत् नद्यः, षट् च निषधनीलवकुण्डनिर्गतद्वादशान्तर्गताः एवं च अप्टत्रिंशत् । तासु च प्रत्येकं चतुर्दशसहस्र परिवारः । एवं च सर्वा: सम्मील्य पञ्चलक्षद्वात्रिंशत्सहत्री नदीनां सीतायां सङ्गच्छते । ७९ अथाष्टत्रिंशन्नद्यश्चतुर्दशसहस्रं गुणिताः कियत्सङ्ख्याका भवन्ति इति तां सङ्ख्या जम्बूद्वीपसर्व नदीसख्यां च दिदर्शयिषुराह भगवान् हरिभद्रसूरिः । यासोयाविय बत्तीससहस्स पंचलक्खेहिं । सब्वे चउदसलक्खा छप्पनसहरूस मेलविया ||२५|| सीयासीययति सीतासीतोदे, अवियत्ति अपि च, बत्तीस सहस्रपंचलक्खेहिंति द्वात्रिशत्सहस्रोत्तरपञ्चलक्षसडख्याभिर्जलधि सङ्गच्छत इति शेषः सच्वेत्ति सर्वा: मेलवियत्ति मेलिना चउदसलक्खाछप्पन सहस्सत्ति षट्पञ्चाशत सहस्रोत्तर चतुर्दशलक्षसङ्ख्या भवन्तीति शेषः । इति पदगमनिका । अयं भावः । सीतासीतोदे तावत् पूर्वप्रतिपादितप्रकारेण प्रत्येकं पञ्च लक्षद्वात्रिंशत्सहस्रसङ्ख्याभिर्नदीभिः समुद्रमभिगच्छतः । सर्वासां गङ्गासिन्ध्वादीनां परिवारे मिलिते चतुर्दशलक्षषट्पञ्चाशत्सहस्रसङ्ख्या नदीनां भवति तथाहि भरतस्थगङ्गायाश्चतुर्दशसहस्रपरिवारः, भरतस्थसिन्धवाः चतुर्दशसहस्रपरिवार ऐरवतस्थरक्ताया अपि तावान् परिवारः, ऐवतस्थरक्तावत्या अपि तावान् । हिमवदस्थरोहिताया अष्टाविंशतिसहस्रपरिवार, रोहितांशाया अपि तावान् । हिरण्यवत्स्थयोस्सुवर्णकुलारूप्यकुलयोस्तावन्तौ परिवारौ । हरिवर्षस्थहरिकान्तायाः षट्पञ्चाशत्सहस्र परिवारः, हरिसलिलाया अपि तावान् । रम्यकस्थनरकान्तानारीकान्तयोस्तावन्तौ परिवारौ विज्ञेयौ । विदेहस्थसीतायाः पञ्चलक्षद्वात्रिंशत्सहस्रपरिवारः, सीतोदाया अपि तावानेव परिवारः । ननु

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154