Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 125
________________ सटीक जंबूद्वीपसग्रहणी क्षित्यवगाढास्ते चत्वारोऽपि । इति धातकीपुष्करवरार्धयोः षट्सप्तत्युत्तरै कसहस्रनगानामुच्चत्वावगाहविचारः । इति चतुश्चत्वारिंशदुत्तरत्रयोदशशतसहख्यानां, सार्धद्वयद्वीपनगानामुच्चत्वावगाह ८८ wwwwww wwwwwwwwww प्रकमः । उक्तञ्च - " “ विहाय मन्दरं सर्वपर्वतानां भवेद्यतः । स्वत्वोच्छ्रयस्य तुर्या शो व्यवगाढो भुवोऽन्तरे ॥ अथ परिशिष्टानां मेरूणां पञ्चानां किञ्चिद्विशेषोऽवगाहत्वे लिख्यते । तत्र तावज्जम्बूद्वीप मेरुः पूर्ववर्णितस्वरूपो लक्षयोजनमानोच्च एकसहस्र योजनावगाढश्च । धातकीपुष्करार्धमेवः चत्वारः चतुरशीतिसहस्रयोजनानि भूमित उच्चाः एकसहस्रयोजनानि भूम्यवगाढाश्च । तत्स्वरूपं चेदम् । इमे मेरत्रो जम्बूमेरुवद्वर्णनीयाः । नवरमयं विशेषो यदुत एषु मेरुषु प्रत्येकं भूमेरुपरिष्टात् पञ्चशतयोजनानि नन्दनाभिधं वनं ततः सार्धपञ्चपञ्चाशत्सहस्रयोजनान्युपरिसौमनसाख्यं कानकं ततः अष्टात्रिंशतिसहस्रयोजनान्युपरि पाण्डुकसंज्ञमुपवनं । सर्वेषु योजनेषु मिलितेषु चतुरशीतिसहस्रयोजनानि भवन्ति । अवगाहश्च सहस्रयोजनानीति पञ्चाशीतिसहस्रयोजनोच्चत्वं सर्वेषां मेरूणां चतुर्णाम् । इति मेरुपञ्चक- विवरणम् । इति सार्धद्वयद्वीपस्यैकोनपञ्चाशदुत्तरत्रयोदशशतसङ्ख्यनगानामुच्चत्वावगाहविचारः । कोटिशिलाऽन्तर्द्वीपादिवक्तव्यता भणनीया । वासुदेवोत्पाटनीयाः कोटिशिला अभिधीयन्ते । तथाहि वासुदेवस्यार्धचक्रित्वाच्चक्रितोऽर्धसाम्राज्यं । अतो वासुदेवस्य त्रिखण्डाधिपत्यं इति खण्डान् साधिमे वासुदेवाः कोटिशिला उत्पाटयन्ति । कोटिशिला शाश्वतीति ज्ञायते । गङ्गासिन्धुवैताढ्यादिशाश्वतपदार्थानां मध्ये शास्त्रे तस्या अदर्शनात् तथा मगधदेशमध्ये दशार्णपर्वतसमीपे चास्तीति तथा नराणां कोट्योत्पाटयत्वेन, श्रीशान्तिजिनादिषट्क जिनतीर्थगतानेकमुनिकोटीनां तत्र सिद्धत्वेन कोटिशिलेत्यभिधीयते इति तीर्थकल्पादौ तथा शान्तिचरित्रे तु चोक्तं - 66 “ इतोऽस्ति भरतक्षेत्रे मध्यखण्डे सुरार्चितं । भुवि ख्यातं कोटिशिलाभिधानं तीर्थमुत्तमम् ॥१॥ विधायानशनं तत्र बहुकेवलिसंयुतः । चक्रायुधो गणधर : पुण्यात्मा प्रययौ शिवम् ॥२॥ तस्यां शिलायां कालेन बहव्यः संयतकोटयः । सिद्धाश्चक्रायुधांहिभ्यां यका पूर्वं पवित्रता ||३|| सिद्धे गणधरे तस्मिंस्तीर्थे शान्तिजिनेशितुः । सिद्धास्तत्र महातीर्थे सङ्ख्याता यतिकोटयः ॥ ४ ॥ थोरप गर्थे तत्र शिलातले । साधूनां कोटयः सिद्धाः सङ्ख्याता गतपातकाः ||५|| अरस्य स्वामिनस्तीर्थे साधुद्वादशकोटयः । अष्टप्रकारकर्माणि क्षपयित्वा शिवं गताः ||६|| तीर्थे मल्लिजिनेन्द्रस्य केवलज्ञानधारिणः । षडत्र कोटयः प्राप्ता निर्वाणं व्रतशालिनां ॥७॥ मुनिसुव्रतस्य तीर्थे तीर्थेऽत्र विश्रुते । साधूनां कोटयस्तिस्रः सम्प्राप्ताः पदमव्ययम् ॥८॥ ती नमिजिनस्यापि कोटिरेका महात्मानां । सिद्धास्तत्रानगाराणां सुविशुद्ध क्रियावताम् ॥९॥

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154