Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 134
________________ परिशिष्ट : १ आचार्य श्रीविजयोदयसूरिप्रणीता स्थावरजीवसिद्धिः विधाय सम्यग् जिनराजवन्दनं निधाय चित्ते गुरुनेमिसूरिणम् । प्रणम्य वाणी जिनराजदेशितां मृदादिजीवेष्विह वच्मि जीवताम् ॥१॥ शङ्खादिजीवा मनुजावसाना जीवत्वमेषां प्रकटं हि गम्यम् । पृथ्व्यादिजीवेषु परं कथं स्याज्जीवत्वलिङ्गाऽनवलोकनात्तत् ॥२॥ एतदेव व्यज्यते -- अथास्तु द्वीन्द्रियादीनां व्यक्तलिङ्गस्य दर्शनात् । जीवत्वं तदभावात्तु पृथ्व्यादीनां कथं भवेत् ! ॥३॥ प्रतिष्ठाप्यते - यदि सत्यं तथाप्यस्त्यव्यक्तलिङ्गस्य दर्शनम् । धत्तरमिश्रमदिरा – पानमूर्च्छितजीववत् ॥४॥ आह परः - सम्मूच्छिते व्यक्तजीव-लिङ्गदृष्टिर्न विद्यते । तथाप्यव्यक्तश्वासादि-लिङ्गमस्तीति भाव्यताम् ॥५॥ उच्यते - छेद्यभेद्योपभोग्योत्क्षेप्यप्रेयस्वाद्यस्पृश्यतः। सचेतनत्वं पञ्चानां भवेच्छृङ्गादिसङ्घवत् ॥६॥ काष्ठादिभिरनेकान्तो न चास्तीति विचिन्त्याताम् । उपभोग्याखिलद्रव्ये जीवदेहत्वस्वीकृतेः ॥७॥ तर्वाद्यचित्ता विज्ञेयाः काष्ठादिद्रव्यसंज्ञिनः । अचित्तत्वसचित्तत्व-विशेषोऽयं प्रपञ्च्यते ॥८॥ अशस्त्रोपहतं भ्वादि-कदाचित् स्यात् सचेतनम् । संघातत्वात्मतं पाणि-पादसंघातवद् बुधैः ॥९॥ शस्त्रेणोपहतं तत्त कदाचिद् भ्वाद्यचेतनम् । शस्त्रोपहतभावेन पाणिपादादिकं यथा ॥१०॥ पृथ्वीकायजीवस्थापना - रूवणोपलपृथ्वीनां देवदत्तशरीरवत् । सात्मता समजातीया - कुरकार्योपलम्भतः ॥११॥ पर आह - विद्रुमोपलपृथ्वीषु कठिनत्वादि लक्षणम् । लक्षणं पुद्गलानां तज्ज्ञेया स्याच्चेतना कुतः ? ॥१२॥ उच्यते - शरीरमध्यवृत्तीनां यथास्थ्ना कठिनात्मता । तथैव भूमिदेहानां चेतनायो न बाधिका ॥१३॥ अव्यक्तचेतनालिङ्गात् तरूणां चेतना यथा । सचित्ता भूस्तथेष्टा नः अव्यक्तादुपयोगतः ॥१४॥

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154