Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सटीकजंबूद्वीपसङग्रहणी
८२
एवमन्येऽपि बहवः सिद्धा ये तत्र साधवः । कालेन गच्छता तेऽत्र ग्रन्थेन कथिता मया ॥१०॥ येषां तीर्थकृतां तीर्थे सिद्धाकोटिरनूनका । तान्येव कथितान्यत्र सेयं कोटिशिला ततः ॥११॥ चारणश्रमणैः सिद्धयक्षैर्देवासुरैस्तथा । तद्भक्त्या वन्द्यते नित्यं तीर्थ कोटिशिलाभिधम् ॥१२॥
___ताश्च जम्बूद्वीपे चतुस्त्रिंशत्सङ्ख्या भवन्ति । धातकीपुष्करार्धयोः प्रत्येकं द्विगुणितास्ता अष्टषष्ठिसख्या ज्ञेया इति । सर्वाश्च मिलिताः सप्तत्युत्तरै कशतसङ्ख्या भवन्ति कोटिशिलाः ।
षट्पञ्चाशदन्तींपवक्तव्यता चेयम् । लवणसमुद्रस्य अन्तर्मध्ये भवा आन्तीपास्ते च षट्पञ्चाशत्सङ्ख्यास्तथाहि - इह हि जम्बूद्वीपे भरतोदीचीनस्थहिमवगिरेः पर्यन्तयोः प्रत्येक ऐशान्यामाग्नेय्यां च द्वे, नैर्ऋत्यां वायव्यां च द्व दंष्ट्रे विदिग्विनिर्गते । एवं चतस्रो दंष्ट्रा भवन्ति । तासु च प्रत्येक सप्त सप्त अन्तर्वीपाः । तेषु प्रथमं चतुष्कं जम्बूद्वीपजगत्यास्त्रिशतयोजनान्तरितं त्रिशतयोजनविस्तारवच्च, द्वितीयं चतुष्कं जगत्याश्चतुःशतयोजनान्तरितं तावद् विस्तारवच्च, एवमग्रेऽपि शतशतवृद्धय: भावनीयास्तथाहि तृतीयं जगत्याः पञ्चशतयोजनान्तरितं तावद्विस्तारवच्च, चतुर्थ चतुष्कं च जगत्याः षट्शतयोजनान्तरितं तावद्विस्तारवच्च, पञ्चमं चतुष्कं जगत्याः सप्तशतयोजनान्तरित तावद् विस्तारवच्च, षष्ठं चतुष्कं जगत्या अष्टशतयोजनान्तरितं तावद्विस्तारवच्च, सप्तमं च चतुष्कं जम्बूद्वीपजगत्या नवशतयोजनान्तरितं नवशतयोजनविस्तारवच्च एवमष्टाविंशतिसडख्या अन्तीपा भवन्ति-तद्यथा ऐशान्यां सप्ताग्नेय्यां सप्त नैर्ऋ त्यां सप्त वायव्यां च सप्त । तन्नामानि चैवं - ऐशान्यां एकोरुक-हयकर्णादर्शमुखहयमुखाश्वकर्णोल्कामुख-घनदन्ताभिख्याः । एवं आग्नेय्यां तथा आभासिकगजकर्णमेण्ट्मुखहस्तिमुखहरिकर्णमेघमुखलष्टदन्ताभिधाः । नैऋत्यां वैषाणिकगोकर्णायोमुखसिंहमुखाकर्णकविद्युन्मुखगूढदन्तसंज्ञाः । वायव्यां च लाङ्गलिकशष्कुलीकर्णगोमुखव्याघ्रमुखकर्णप्रावरणविद्युद्दन्तशुद्धदन्ताभिधानाः । एवं ऐरवतदाक्षिणात्यशिखरिणः प्रत्येकं शान्यां आग्नेय्यां च द्वे, नैऋत्यां वायव्यां च द्वे दंष्ट्रे विदिग्विनिर्गते । एवं चतस्रो दंष्ट्रा भवन्ति । तासु च प्रत्येक सप्त सप्त अन्तर्वीपाः । एवं च सर्वा मिलिता अष्टाविंशतिसङ्ख्या. भवन्ति तत्स्वरूपविशालाभिधानादिपर्ववत् । एते सर्वेऽपि पद्मवरवेदिकावनखण्डपरिकरिता, एषां परिधिस्वरूपमिदं तथाहि प्रथमचतुष्कस्य नवशतकिञ्चिन्न्यूनै कोनपञ्चाशद्योजनपरिमिता परिधिः । द्वितीयचतुष्कस्य द्वादशशतपञ्चषष्ठियोजनपरिमितः परिक्षेपः । तृतीयचतुष्कस्यैकादशोत्तरपञ्चदशशतयोजनपरिमितः परिरयः । तुर्यचतुष्कस्य सप्तनवत्युत्तराष्टादशशतयोजनपरिमिता परिधिः । पञ्चमचतुष्कस्य त्रयोदशाधिकद्वाविंशतिशतयोजनपरिमितः परिक्षेपः । षष्ठचतुष्कस्यैकोनत्रिंशदुत्तरपत्रिशतिशतयोजनपरिमितः परिरयः । सप्तमचतुष्कस्य पञ्चचत्वारिंशदुत्तराष्टाविंशतिशतयोजनपरिमिता परिधिः । तथा चोक्तं"सोलुत्तरतिसयजुय सपढमपरिहिं वरावर चउक्कं । पढमे नवगुणवन्ना सा बीए बारपणसट्ठी ॥१॥

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154