Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 131
________________ सटीकजंबूद्वीपसङ्ग्रहृह्णी अथ चतुर्द्वारवर्णनम् । चतुर्दिक्स्थाऽनुत्तरविमानाभिधानवदभिख्यानि चतसृषु काष्ठाषु चत्वारि द्वाराणि । तद्यथा प्राच्यां विजयाभिधं, अवाच्यां वैजयन्ताभिधं प्रतीच्यां जयन्ताभिधं, उदीच्यामपराजिताभिधं च तथाहि मेरोः पञ्चचत्वारिंशत्सहस्रयोजनान्तरितं प्राच्यां जम्बूद्वीपान्ते सीताख्यमहानद्या उपरि अष्टयोजनौच्चं, चतुर्योजनविशालं, चतुर्योजनायतं, भूमिप्रवेशे वज्रमयं भूमेरुध्वं रिष्टरत्नमयं, वैडूर्यरत्ननिर्मिताः स्तम्भाः, पञ्चवर्णमणिनिर्मितं कुट्टिमं, हंसगर्भमयी देहली, गोमेद मय इन्द्रकीलकः, लोहिंताक्षनिर्मिते द्वारशाखे, वज्रमयः परिधः वैडूर्यमये कपाटे, नानामणिमये कपाटचूलागृहे, रत्न १ वज्र २ बैडूर्य ३ लोहिताक्ष४ मसारगल्ल ५ हंसगर्भ ६ पुलक ७ सौगन्धिका ८ ञ्जन ९ रजत १० ज्योतीरसा ११ ङ्का १२ जनपुलक १३ रिष्ट १४ जातरूप १५ स्फटिका: १६ षोडशरत्नभिन्निर्मितो द्वारोपरितनभागः । श्रीवत्स १ मत्स्य २ दर्पण ३ भद्रासन ४ वर्द्धमान ५ कलश ६ स्वस्तिक ७ नन्दावर्त्ता ८ ख्यानि द्वारोपरिं अष्टौ मङ्गलानि इत्यादिकं विजयद्वारस्वरूपं लेशतो दर्शितं । विशेषार्थिभिः प्राग्वर्णितग्रन्था विलोक्या: । पश्चिम जयन्त द्वार ५०० योजन २ उसर अपराजितद्वार ७९०५२ यो. १ गा. १५३२ प. ३८ अं द्वारन्तर विजयन्तद्वार दक्षिण जगती च जगतीद्वाराणि च विजयद्वार चित्राङ्क: २० अस्य द्वारस्य यो यो देवोऽधिष्ठाता तं तं तस्य सामानिका: पुस्तकेषु तथालिखितदर्शनतो विजयाभिधानतो ब्रुवन्ति इति तद्योगाच्छाश्वतमिदं नाम यथैतत् विजयद्वारं वर्णितस्वरूपं

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154