SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ सटीकजंबूद्वीपसङग्रहणी ८२ एवमन्येऽपि बहवः सिद्धा ये तत्र साधवः । कालेन गच्छता तेऽत्र ग्रन्थेन कथिता मया ॥१०॥ येषां तीर्थकृतां तीर्थे सिद्धाकोटिरनूनका । तान्येव कथितान्यत्र सेयं कोटिशिला ततः ॥११॥ चारणश्रमणैः सिद्धयक्षैर्देवासुरैस्तथा । तद्भक्त्या वन्द्यते नित्यं तीर्थ कोटिशिलाभिधम् ॥१२॥ ___ताश्च जम्बूद्वीपे चतुस्त्रिंशत्सङ्ख्या भवन्ति । धातकीपुष्करार्धयोः प्रत्येकं द्विगुणितास्ता अष्टषष्ठिसख्या ज्ञेया इति । सर्वाश्च मिलिताः सप्तत्युत्तरै कशतसङ्ख्या भवन्ति कोटिशिलाः । षट्पञ्चाशदन्तींपवक्तव्यता चेयम् । लवणसमुद्रस्य अन्तर्मध्ये भवा आन्तीपास्ते च षट्पञ्चाशत्सङ्ख्यास्तथाहि - इह हि जम्बूद्वीपे भरतोदीचीनस्थहिमवगिरेः पर्यन्तयोः प्रत्येक ऐशान्यामाग्नेय्यां च द्वे, नैर्ऋत्यां वायव्यां च द्व दंष्ट्रे विदिग्विनिर्गते । एवं चतस्रो दंष्ट्रा भवन्ति । तासु च प्रत्येक सप्त सप्त अन्तर्वीपाः । तेषु प्रथमं चतुष्कं जम्बूद्वीपजगत्यास्त्रिशतयोजनान्तरितं त्रिशतयोजनविस्तारवच्च, द्वितीयं चतुष्कं जगत्याश्चतुःशतयोजनान्तरितं तावद् विस्तारवच्च, एवमग्रेऽपि शतशतवृद्धय: भावनीयास्तथाहि तृतीयं जगत्याः पञ्चशतयोजनान्तरितं तावद्विस्तारवच्च, चतुर्थ चतुष्कं च जगत्याः षट्शतयोजनान्तरितं तावद्विस्तारवच्च, पञ्चमं चतुष्कं जगत्याः सप्तशतयोजनान्तरित तावद् विस्तारवच्च, षष्ठं चतुष्कं जगत्या अष्टशतयोजनान्तरितं तावद्विस्तारवच्च, सप्तमं च चतुष्कं जम्बूद्वीपजगत्या नवशतयोजनान्तरितं नवशतयोजनविस्तारवच्च एवमष्टाविंशतिसडख्या अन्तीपा भवन्ति-तद्यथा ऐशान्यां सप्ताग्नेय्यां सप्त नैर्ऋ त्यां सप्त वायव्यां च सप्त । तन्नामानि चैवं - ऐशान्यां एकोरुक-हयकर्णादर्शमुखहयमुखाश्वकर्णोल्कामुख-घनदन्ताभिख्याः । एवं आग्नेय्यां तथा आभासिकगजकर्णमेण्ट्मुखहस्तिमुखहरिकर्णमेघमुखलष्टदन्ताभिधाः । नैऋत्यां वैषाणिकगोकर्णायोमुखसिंहमुखाकर्णकविद्युन्मुखगूढदन्तसंज्ञाः । वायव्यां च लाङ्गलिकशष्कुलीकर्णगोमुखव्याघ्रमुखकर्णप्रावरणविद्युद्दन्तशुद्धदन्ताभिधानाः । एवं ऐरवतदाक्षिणात्यशिखरिणः प्रत्येकं शान्यां आग्नेय्यां च द्वे, नैऋत्यां वायव्यां च द्वे दंष्ट्रे विदिग्विनिर्गते । एवं चतस्रो दंष्ट्रा भवन्ति । तासु च प्रत्येक सप्त सप्त अन्तर्वीपाः । एवं च सर्वा मिलिता अष्टाविंशतिसङ्ख्या. भवन्ति तत्स्वरूपविशालाभिधानादिपर्ववत् । एते सर्वेऽपि पद्मवरवेदिकावनखण्डपरिकरिता, एषां परिधिस्वरूपमिदं तथाहि प्रथमचतुष्कस्य नवशतकिञ्चिन्न्यूनै कोनपञ्चाशद्योजनपरिमिता परिधिः । द्वितीयचतुष्कस्य द्वादशशतपञ्चषष्ठियोजनपरिमितः परिक्षेपः । तृतीयचतुष्कस्यैकादशोत्तरपञ्चदशशतयोजनपरिमितः परिरयः । तुर्यचतुष्कस्य सप्तनवत्युत्तराष्टादशशतयोजनपरिमिता परिधिः । पञ्चमचतुष्कस्य त्रयोदशाधिकद्वाविंशतिशतयोजनपरिमितः परिक्षेपः । षष्ठचतुष्कस्यैकोनत्रिंशदुत्तरपत्रिशतिशतयोजनपरिमितः परिरयः । सप्तमचतुष्कस्य पञ्चचत्वारिंशदुत्तराष्टाविंशतिशतयोजनपरिमिता परिधिः । तथा चोक्तं"सोलुत्तरतिसयजुय सपढमपरिहिं वरावर चउक्कं । पढमे नवगुणवन्ना सा बीए बारपणसट्ठी ॥१॥
SR No.022269
Book TitleJambudwip Laghu Sangrahani
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy