Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
८६
सटीक जंबूद्वीपसङ्ग्रहणी
www
जम्बूद्वीप तो द्विगुणितक्षेत्रसभावान्नगा अपि द्विगुणिता भवन्ति । ईक्षुकारद्वयवर्णनं तु नवरमुच्यते । घातक वण्डे भरतयुगलैरवतयुगलान्तरितौ प्रत्येकं चतुर्लक्षयोजनायतौ पञ्चशतयोजनोच्चौ सहस्रयोजनविशाल जिनचैग्यान्विती ईक्षुदण्डाकारौ द्वौ नगौ स्तः । एवं पुष्करार्घद्वीपेऽपि तावन्तो नगाः चत्वारिंशदुत्तरपञ्चशतसङ्ख्या धातकीखण्डवद्विज्ञेयाः । तत्र घातकीखण्डे घातकीमहाधातक्यभिधानवृक्षसद्भावाद् धातकीति गौणी धुत्रा संज्ञा । एवं पुष्करार्धद्वीपे पद्ममहापद्माभिधवृक्षसद्भावात् पुष्करवर इति गौणं शाश्वतमभिधानं । पुष्करवरद्वीपं मध्यपतितेन द्वात्रिंशत्युत्तरैक सहस्रयोजनत्रिंशालमूलेन चतुर्विंशत्युत्तरचतुः शतयोजनविशालशिखरेणैकविंशत्युत्तर सप्तदशशत योजनोच्चेनासीनशार्दूलाकृतिना रक्ततपनीयवर्णेन वलयाकृतिना मानुषोत्तरनगेन द्विभागीकृतत्वात् पुष्करार्धं द्वीपस्य गृहयते । एषु सार्धद्वयेषु द्वीपेषु नगा एकोनपञ्चाशदुत्तरत्रयोदशशतसङ्ख्याः भवन्ति । सपर्वता मन्दरहीनाः कार्याः । तत्र मन्दरास्तावत् पञ्च एको जम्बूद्वीपे द्वौ धातकी खण्डे द्वौ पुष्करार्ध इति तैहना सन्तः चतुश्चत्वारिंशदुत्तरत्रयोदशसङ्ख्या' जायन्ते । इमे सर्वेऽपि उत्सेधचतुर्थभागेन पृथ्व्याभवगाढा “ उस्सेहच उब्भागो गाहो पायसो नगवराणं " इति स्थानाङ्गटीका वचनप्रामाण्यात् इति । तत्रादिमे जम्बूद्वीपेऽष्टषष्टयुत्तरद्विशतसङख्यकानां गिरीणां अवगाहविचार: प्रस्तूयते । तथाहि जम्बूद्वीपचतुस्त्रिंशद्विजयस्था: प्राग्निगदितस्वरूपाश्चतुस्त्रिंशत्सडख्याका आयतवैताढ्यनगाः । प्रत्येकं पञ्चविंशतियोजनोच्छ्रयाः, उत्सेधतुर्यो भागश्च सपादपइयोजनानि अतस्तायोजनावगाढास्ते । उक्तञ्च " पञ्चविंशतियजनान्युन्नतः कोशाधिकानि षड्भुवोऽन्तरे । एवं हिमवदादियुगलिक क्षेत्रस्था: प्रतिपादितस्वरूपाश्चत्वारः शब्दापात्याद्याश्चत्वारो वृत्तवैतायाः प्रत्येकं सहस्त्रयोजनोच्चः उच्च यचतुर्थो भागश्च सार्धद्विशतयोजनानि, अतस्तावन्ति योजनानि भूगढ चत्वारः । पूर्वापरविदेहद्वात्रिंशद्विजयान्तरिताः पूर्ववर्णितस्वरूपा षोडश वक्षस्कारगिरयः प्रत्येकं कुलगिर्यन्तिके चतुः शतयोजनोच्चाः, उत्सेधतुर्यो भागश्च शतयोजन नीति योजनानि निषधनीलवतोरन्तिके महावगाढास्ते षोडश पुन उत्सेधत्वे मात्रया वर्धमाना ते सीतासीतोदयोरन्तिके पञ्चशतयोजनोच्चाः षोडश तच्चतुर्थो भागः सपादशतयोजनानि अतस्तावन्ति योजनानि नद्योरन्तिके क्षित्यवगाढास्ते षोडश वक्षस्कारगिरिय: १६ । निषधनीलवतोर्गन्धमादनाद्याः प्राग्वर्णितस्वरूपाश्चत्वारो गजदन्ताः निषधनीलवतोरन्तिके चतुः शतयोजनोच्चाः प्रत्येकं, तच्चतुर्थभागः शतयोजनानि अतस्तावन्मानं पृथिव्यवगाढा निषधनीलवतोरन्तिके ते चत्वारः । अथ त एव चत्वारः प्रत्येकमुच्छ्यत्वे मात्रया प्रवर्धमानाः मेरुगिर्यन्तिके पञ्चशतयोजनोच्चास्तच्चतुर्थो भागश्च सपादशतयोजनानि अतस्तावन्ति योजनानि भूम्यवगाढास्ते गजदन्ताश्चत्वारः मन्दराचलान्तिके ४ । तिमिच्छिकेसरिद्रहाधस्तन निषधनीलवदादिद्रहोभयपार्श्वस्था: निगदितस्वरूपा द्विशतसङ्ख्याः कनकगिरियः
""
१. नगानां

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154